SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ दुर्घटेति । यतो भणितमावश्यके ॥ ७१॥ जह सावजा किरिया, णत्थि य पडिमासु एवमियरा वितयभावे णत्थि फलं,अह होइ अहेउअंहोइ ॥७२॥ | 'जहत्ति । यथा 'सावद्या क्रिया' सपापा क्रिया 'नास्त्येव' न विद्यत एव प्रतिमासु एवं 'इतरापि' निरवद्यापि नास्त्येव, ततश्च 'तदभावे' निरवद्यक्रियाऽभावे नास्ति 'फलं' पुण्यलक्षणम् । अथ भवति 'अहेतुकं भवति' निष्कारणं च भवति, प्रणम्यवस्तुगतक्रियाहेतुगतत्वात् फलस्येत्यभिप्रायः । अहेतुकत्वे चाऽऽकस्मिककर्मसंभवान्मोक्षाद्यभाव इति गाथार्थः॥७२॥ समाधायकः प्राहमणसुद्धिणिमित्तत्ता, पडिमाओ हुंति वंदणिज्जाओ। सा चेव य फलहेऊ, तेणण दोसो जओ भणियं ७३॥ | 'मणसुद्धित्ति । यद्यपि प्रतिमासु निरवद्यक्रियाऽपि नास्ति तथापि मनःशुद्धिः-जिनगुणप्रणिधानलक्षणा तन्निमित्तत्वात् प्रतिमा वन्दनीया भवन्ति, सा चैव मनःशुद्धिः फलहेतुः; तेन न 'दोषः' प्रागुक्तप्रतिमानामवन्द्यत्वापत्तिलक्षणः। यतो भणितम्-आवश्यके ॥ ७३ ॥ कामं उभयाभावो, तहवि फलं होइ मणविसुद्धीए। तीए पुण मणविसुद्धीइ कारणंहुंति पडिमाओ॥७॥ _ 'काम'ति । 'काम' अनुमतमिदं यदुत 'उभयाभावः' सावद्येतरक्रियाभावः प्रतिमासु तथापि ‘फलं' पुण्यलक्षणमस्ति । मनसो विशुद्धः सकाशात् , तथाहि-वगतमनोविशुद्धिरेव नमस्कर्तुः पुण्यकारणं न नमस्करणीयवस्तुगता क्रिया, समाधायकः गुरुन. ३० Jain Educationka For Private Personal Use Only
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy