SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्तियुतः तृतीयो - ॥ १७४ ॥ तस्सेव साण इट्ठा, किरिया सावज्जया जओ तस्स । असुहविगप्पणिमित्तं, पडिमासुय सा ण थोवावि ७० 'तस्सेव'त्ति । ‘तस्यैव' पार्श्वस्थादेः 'सा' स्थापना लिङ्गे 'नेष्टा' नाङ्गीकृता, यतः 'तस्य' स्थाप्यत्वेनाभिमतस्य क्रिया सावद्या अशुभ विकल्पनिमित्तम्, तादृशस्य भावस्य स्थापनाया अपि तथात्वात्, तथा च पापानुमतिदोषस्तदवस्थ एवेति भावः । प्रतिमासु च 'सा' सावद्यक्रियाऽनुमतिरूपा स्तोकाऽपि नास्ति, स्थाप्ये तीर्थकरे परिस्पन्दरूपसावद्यक्रियाऽभावात्, स्थाप्येऽनुभूयमानयोरेव गुणदोषयोः स्थापनासङ्केतमहिम्नाऽनुमतिसंभवात् तथा च दृष्टान्तवैषम्यमितिभावः । अथवा 'तस्यैव' पार्श्वस्थादेः 'सा' लिने स्थापना नेष्टा यतस्तस्य सावद्या क्रियास्ति, सा च लिङ्गे प्रत्यासन्नाऽशुभविकल्पनिमित्तम् । तथा च तयाऽशुभविकल्पकोडीक्रियमाणं लिङ्गमवन्दनीयम्, प्रतिमासु च सा सावद्यक्रिया स्तोकापि नास्तीति तयाऽशुभविकल्पाविषयीक्रियमाणत्वात् सा वन्दनीयैवेति दृष्टान्तवैषम्यम् ॥ १७० ॥ अत्राह प्रेरकःसुद्धकिरियाणिमित्ता, अह सिद्धी नणु हवेज्ज जीवाणं । पडिमासु वि तयभावा, तो ण हवे सा जओ भणिअं॥ 'सुद्ध'ति । ननु यद्येवमशुभक्रियाजनिताऽशुभसङ्कल्पविषयत्वाल्लिङ्गस्यावन्दनीयत्वं तद्वन्दनस्य पापफलत्वात्, विपर्ययाच्च प्रतिमानां वन्दनीयत्वं व्यवस्थितं तदा शुद्धक्रियानिमित्ता जीवानां नमस्कर्तॄणां 'सिद्धिः' पुण्यनिष्पत्तिर्भवेदिति प्रतिमास्वपि तदभावात्' शुद्धक्रियाऽभावात्पुण्यसिद्धिर्न भवेदिति तासामप्यवन्दनीयत्वं प्रसक्तम् । न खलु पापानिष्पत्तिमात्रार्थ वन्दने प्रवृत्तिः प्रेक्षावताम्, तुल्यायव्ययत्वात्, किन्तु पुण्यनिष्पत्तयेऽपि सा चात्रापि प्रतिमागतशुद्धक्रियाभावे Jain Education International For Private & Personal Use Only: गुरुतत्त्वविनिश्चयः लासः प्रेरकः ॥ १७४ ॥ ainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy