SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ WELCONGRESUMEASURE 'इत्तो अत्ति । 'इतः' द्रव्यत्वाभावेऽपि भावगुणाध्यारोपात् 'अप्रधाने पार्श्वस्थादिलिङ्गे प्राधान्यमत्या प्रकटैव तद्गतदोपानुज्ञा, कूटलिङ्गप्राधान्यस्फूत्तों तत्प्रतिवद्धदोषाणामपि तथात्वस्फुरणात् । इदमभिप्रेत्यैव भणितमिदमावश्यके ॥ ६७ ॥|| संतातित्थयरगुणा, तित्थयरे तेसिमं तुअज्झप्पं । न य सावजा किरिया, इयरेसुधुवा समणुमन्ना ॥६॥ | 'संत'त्ति । 'सन्तः' विद्यमानाः शोभना वा तीर्थकरस्य गुणाः-ज्ञानादयः, क्व ? तीर्थकरे इयं च प्रतिमा तस्य भगवत इति तेषां नमस्कुर्वताम् 'इदमध्यात्मम्' इदं चेतः, तथा न च तासु प्रतिमासु 'सावधा' सपापा 'क्रिया' चेष्टा, 'इतरेषु' पार्श्वस्थादिषु 'ध्रुवा' अवश्यंभाविनी सावद्या क्रिया । प्रणमतस्तत्र किम् ? इत्याह-समणुमन्ना' सावधक्रियायुक्तपार्श्वस्थादिषु प्रणमनात् सावद्यक्रियानुमतिरिति हृदयम् । अथवा सन्तस्तीर्थकरगुणास्तीर्थकरे तान् वयं प्रणमामस्तेषामिदमध्यात्मम् , ततोऽर्हद्गुणाध्यारोपेण च इष्टप्रतिमाप्रणमनान्नमस्कर्तुर्न च सावद्या क्रिया परिस्पन्दनलक्षणा। 'इतरेषु' पार्श्वस्थादिषु । पूज्यमानेष्वशुभक्रियोपेतत्वात्तेषां नमस्कर्तुर्भुवा समनुज्ञेति ॥ ६८ ॥ प्रकारान्तरेण शङ्कते अह ठवणाभावेणं, लिंगं अज्झप्पसोहयं इटुं । ता वत्तवं सा किं, तस्सेव उयाहु अण्णस्स॥ ६९ ॥ | | 'अहं' त्ति । अथ स्थापनाभावेन 'लिङ्ग' पार्श्वस्थादिसम्बन्धि द्रव्यलिङ्गम् ‘अध्यात्मशोधक' शुभभावनाजनकमिष्टं न चैवं पापानुमतिः, अप्रधाने प्रधानत्वस्फूर्तेरेव तद्रूपत्वादिति भावः तत् वक्तव्यं 'सा' लिङ्गे स्थापना किं 'तस्यैव पार्श्व*स्थादेरुताहो! 'अन्यस्य' संविग्नस्य साधोः? ॥ ६९॥ आद्यं पक्षं दूषयितुमुपक्रमते Jain Education International For Private Personal Use Only
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy