SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ त्त्वतो विद्यते, तत्स्थापनाभावेन प्रतिमा खलु 'नमनीया' वन्दनीया भवति । अयं भावः - मुख्यतस्तावन्नमस्कर्त्तव्यत्वं स्वापकर्षावधिकोत्कर्षप्रतियोगित्वं प्रकृते तीर्थकर एव, तत्स्थापनाद्वारा तूपचारतः प्रतिमापि नमस्कर्त्तव्येति ॥ ६३ ॥ लिङ्गस्य तु नमस्कर्तव्यत्वे नेयं नीतिः किन्तु भिन्नेत्याह- दत्तणेण सम्मं, नमणिज्जं होइ साहुलिंगं तु । तं खलु सक्खं भावे, संबद्धं होइ सब्भावे ॥ ६४ ॥ 'दवत्तणेण 'ति । साधुलिङ्गं तु सम्यक्स्थापनातोऽपि प्राधान्येन द्रव्यत्वेन नमनीयं भवति, यतः 'तत्' द्रव्यत्वं खलु 'सद्भावे' परमार्थे विचार्यमाणे 'साक्षात् समवायेन भावे संबद्धं भवति, भावकारणताया एव द्रव्यपदार्थत्वात्, कार्यकारणभावस्य च कथञ्चिदविश्वग्भाव एव संभवात् ॥ ६४ ॥ इत्थं च नमस्कर्त्तव्यतायां स्थापनातोऽपि प्रत्यासन्नतरतया प्रधानं द्रव्यरूपं लिङ्गम्, तच्च भावसंवद्धं स्यात् ; प्रकृते तु पार्श्वस्थादिलिङ्गे पक्षीकृते भावासंबद्धेन द्रव्यत्वस्यैव पारमार्थिकस्याभावादप्रधानत्वस्यैव पर्यवसाने स्थापनावन्न मनःशुद्धिहेतुत्वं नमस्कर्त्तव्यत्वं वेति, 'असाधूनामपि लिङ्गं नमस्कर्त्तव्यम्, मनःशुद्धिहेतुत्वात्, जिनप्रतिमावत्' इत्यत्र दृष्टान्तवैषम्यमित्यभिप्रायवानाह— जिणपडिमासु जिणाणं, अज्झप्पं ठवणओ व आरोवा । लिंगम्मि उ दवत्ता, इय दिट्टंतस्स वे हम्मं ॥ ६५ ॥ 'जिणपडिमासु'त्ति । जिनप्रतिमासु जिनानामध्यात्मं स्थापनातो वा इयं जिनानां मूर्त्तिः प्रतिष्ठापितेत्येवम्, आरोपाद्वा भगवद्गुणानां 'भगवानेवायं प्रशमरसनिमग्नलोचनः प्रसन्नवदनः स्निग्धकान्तिः सुरासुरनरनिकरपूजितः' इत्येवं Jain Education International For Private & Personal Use Only: www.jainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy