SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्तियुतः तृतीयो - ।। १७२ ।। 'किं गुण'ति । किं गुणानां लिङ्गप्रतिवद्धानां विचारणया ?, लिङ्गमेवाध्यात्मशुद्धि हेतुरित्यविशेषान्नमनीयम्, यथा | जिनप्रतिमा, नहि नमनीयगतगुणप्रभवा नमस्कर्तुर्निर्जरा, अपि त्वात्मीयाध्यात्मशुद्धिप्रभवा, सा च लिङ्गादपि भवन्ती लिङ्गस्यापि नमनीयत्वमाक्षिपतीति यतो भणितमावश्यके ॥ १६० ॥ तित्थयरगुणा पडिमासु णत्थि णिस्संसयं विआणतो । तित्थयर त्तिणमंतो, सो पावइ णिज्जरं विउलं ॥ ६१ ॥ 'तित्थर'ति । तीर्थकरस्य गुणा ज्ञानादयस्ते 'प्रतिमासु' बिम्बलक्षणासु 'नत्थि' न सन्ति 'निःशंसयं' संशयरहितं 'विजानन्' अवबुध्यमानस्तथापि तीर्थकरोऽयमित्येवं भावशुद्ध्या 'नमन' नमस्कर्त्ता 'प्राप्नोति' आसादयति 'निर्जरां' कर्मक्षयलक्षणां 'विपुल' विस्तीर्णाम् ॥ ६१ ॥ एष दृष्टान्तः, अयमर्थोपनयः लिंगं जिणपन्नत्तं, एव णमंतस्स णिज्जरा विउला । जइ विगुणविप्पहीणं, बंदइ अज्झप्पसोहीए ॥ ६२॥ 'लिंगं 'ति । यतेऽनेन साधुरिति 'लिङ्गम्' रजोहरणादिधरणलक्षणं जिनैः - अर्हद्भिः प्रज्ञप्तं प्रणीतम्, 'एवं' प्रतिमावत् नमस्कुर्वतो निर्जरा विपुला । यद्यपि गुणैः- मूलोत्तरगुणैर्विविधम्- अनेकधा प्रकर्षेण हीनं-रहितं 'वन्दते' नमस्करोति 'अध्यात्मशुद्ध्या' चेतःशुद्धयेति ॥ ६२ ॥ समाधातुमुपक्रमते|णियअवगरिसावहिओ, उक्करिसो गुणवओ भगवओ उ । तट्टवणाभावेणं, पडिमा खलु होइ णमणिज्जा ॥ 'णिय'त्ति । निजः-स्वीयः अपकर्षः - हीनगुणत्वं तदवधिको यः 'उत्कर्षः' अधिकगुणलक्षणः स गुणवतो भगवतस्त Jain Education International For Private & Personal Use Only) गुरुतत्त्वविनिश्चयः ल्लासः आचार्यः ।। १७२ ।। www.jainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy