SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ गतो वा सभायामुपविष्टः 'वैराग्यं' वैराग्यजनकमुपदेशं कथयति येन प्रभूताः प्राणिनः संसारविरक्तचेतसः संजायन्ते । अन्यत्र तु परिवारस्थाने पर्यायो गृह्यते ब्रह्मचर्यपर्यायो येन प्रभूतकालमनुभूत इत्यर्थः, पर्षच्च विनीता तत्प्रतिबद्धा साधुसंहतिर्गृह्यते । तथा कश्चित्पार्श्वस्थादिः स्वभावादेव 'मानी' साहङ्कारः, तथा 'दारुणभावः' रौद्राध्यवसायः, नृशंसो नाम-क्रूरकर्मा अवन्द्यमानो वधवन्धादिकं कारयतीत्यर्थः, अत एव पुरुषाणां मध्येऽधम एतादृशः पुरुष इह गृह्यते ॥५७॥ यद्वा 'लोकप्रकृतः' बहुलोकसम्मतो नृपप्रकृतो वा-धर्मकथादिलब्धिसंपन्नतया राज्ञो बहुमतः । 'अहवण'त्ति अथवा राजादिदीक्षितोऽसौ शैलकाचार्यादिवत्, एवंविधः पुरुष इह प्रतिपत्तव्यः । क्षेत्रं नाम - विहादिकमभावितं वा, विहं - कान्तारमा दिशब्दात्प्रत्यनीकाद्युपद्रवयुक्तम्, तत्र वर्त्तमानानां साधूनामसावुपग्रहं करोति, अभावितं नाम संविग्नसाधुविषयश्रद्धाविकलं पार्श्वस्थादिभावितमित्यर्थः, तत्र तेषामनुवृत्तिविदधानैः स्थातव्यम्, कालश्च 'अणुगालो' दुष्काल उच्यते, तत्र साधूनां वर्त्तापनं करोति । एवं परिवारादीनि कारणानि विज्ञाय कृतिकर्म विधेयम् ॥ ५८ ॥ आगमग्रहणेन च द्वारगाथायां दर्शनज्ञानादिको भावः सूचितोऽतस्तमङ्गीकृत्य विधिमाह - दंसणनाणचरित्तं तवविणयं जत्थ जत्तियं पासे । जिणपन्नत्तं, भक्तीइ पूयए तं तहिं भावं ॥ ५९ ॥ ‘दंसण'त्ति । व्याख्यातेयं प्रथमोलासे ॥ ५९ ॥ एवमुद्यतेतरविहारिगतवन्दनविधौ प्रतिपादिते सत्याह चोदकःकिं गुणवियालणाए, लिंगं अज्झप्पसुद्धिहेउ ति । नमणिजं अविसेसा, जह जिणपडिमा जओ भणिअं ॥ 1 Jain Education International For Private & Personal Use Only) प्रेरकः www.jainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy