SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ जइ णाम सूइओमित्ति वजिओवावि परिहरइ कजं। इति वि हु सुहसीलजणो,परिहजो अणुमती मा सा|| | 'जइ नाम त्ति । यदि नाम कश्चित्पार्श्वस्थादिर्वाग्नमस्कारमात्रकरणे अहो ! 'सूचितः' तिरस्कृतोऽहममुना भझ्यन्तरे-* णेति सर्वथा कृतिकर्माकरणेन वा 'वर्जितः' परित्यक्तोऽहममीभिरिति पराभवं मन्यमानः सुखशीलविहारितां परिहरति 'इत्यपि' एवंविधमपि कारणमवलम्ब्य परिहार्यः कृतिकर्मणि सुखशीलजनः, अपि च तस्य कृतिकर्मणि विधीयमाने तदीयसावधक्रियाया अप्यनुमतिः कृता भवतीत्यतः सा मा भूदिति बुद्ध्याऽपि न वन्दनीयोऽसौ ॥ ५२ ॥ किञ्चलोए वेदे समए, दिट्ठो दंडो अकज्जकारीणं । दम्मति दारुणा वि हु, दंडेण जहावराहेण ॥ ५३ ॥ 'लोए'त्ति । 'लोके' लोकाचारे 'वेदे' समस्तदर्शनिनां सिद्धान्ते 'समये' राजनीतिशास्त्रे 'अकार्यकारिणां' चौरादीनां 'दण्डः' असंभाष्यताशलाकानि!हणालक्षणः प्रयुज्यमानो दृष्टः, यतः 'दारुणा अपि' रौद्रा अपि ते 'यथापराधेन' अप-15 राधानुरूपेण दण्डेन दीयमानेन 'दम्यन्ते' वशीक्रियन्ते, अत इहापि मूलगुणाद्यपराधकारिणां कृतिकर्मवर्जनादिको * दण्डः प्रयुज्यते । एतच्च कारणाभावदशायाम् , कारणे तु वागूनमस्कारादिक्रमयतना कर्त्तव्यैव ॥ ५३॥ आह चवायाए कम्मुणा वा, तह चेटुइ जहण होइ से मन्नू । पस्सति जतो अवायं, तदभावे दूरओ वजे॥५४॥ 'वायाए'त्ति । यतः पार्श्वस्थादेः सकाशात् कृतिकर्मण्यविधीयमाने 'अपाय' संयमविराधनादिकं पश्यति तं प्रति 'वाचा' मधुरसंभाषणादिना 'कर्मणा' शिरःप्रणामादिक्रियया तथा चेष्टते यथा तस्य 'मन्युः' स्वल्पमप्यप्रीतिकं न भवति । अथा Jain Education International For Private Personal Use Only
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy