SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ गुरुत. २९ जड़ लिंगमप्पमाणं, न नजाई णिच्छण को भावो । दट्ठूण समणलिंगं, किं कायवं तु समणेणं ? ॥४३॥ 'जइ लिंगं'ति । यदि 'लिङ्गं' द्रव्यलिङ्गम् 'अप्रमाणम्' अकारणं वन्दनप्रवृत्तौ इत्थं तर्हि 'न ज्ञायते' नावगम्यते 'निश्चयेन परमार्थेन छद्मस्थेन जन्तुना कस्य को भावः ? इति यतोऽसंयता अपि लब्ध्यादिनिमित्तं संयतवच्चेष्टन्ते, संयता अपि च कारणतोऽसंयतवदिति । तदेवंव्यवस्थिते 'दृष्ट्टा' आलोक्य 'श्रमणलिङ्गं' साधुलिङ्गं किं पुनः कर्त्तव्यं 'श्रमणेन' साधुना ? । पुनः शब्दार्थस्तुशब्दो व्यवहितश्चोतो गाथाऽनुलोम्यादिति ॥ ४३ ॥ इत्थं लिङ्गमात्रस्य वन्दनप्रवृत्तावप्रमाणतायां प्रतिपादितायां सत्यामनभिनिविष्टेनैव सामाचारीजिज्ञासया चोदकेन पृष्ठे सत्याहाऽऽचार्य: अप्पुवं दट्ठणं, अभुट्ठाणं तु होइ काय । साहुम्मि दिट्ठपुबे, जहारिहं जस्स जं जुग्गं ॥ ४४ ॥ 'अप्पु 'ति । 'अपूर्वम्' अदृष्टपूर्वं साधुमिति गम्यते, 'दृष्ट्वा' अवलोक्य आभिमुख्येनोत्थानं 'अभ्युत्थानम्' आसनत्यागलक्षणं तुशब्दाद्दण्डकादिग्रहणं च भवति कर्त्तव्यम्, किमिति ? कदाचिदसावाचार्यादिर्विद्याद्यतिशयसंपन्नस्तत्प्रदानायैवागतो भवेत्, प्रशिष्य सकाशमाचार्यकालकवत्, स खल्वविनीतं संभाव्य न तत् प्रयच्छति । तथा दृष्टपूर्वास्तु द्विप्रकाराः - उद्यतविहारिणः शीतलविहारिणश्च । तत्रोद्यतविहारिणि साधी 'दृष्टपूर्वे' उपलब्धपूर्वे 'यथार्ह' यथायोग्यमभ्युत्थानवन्दनादि 'यस्य' बहुश्रुतादेर्यद् योग्यं तस्य तत् कर्त्तव्यं भवति । यः पुनः शीतलविहारी न तस्याभ्युत्थानवन्दनादि उत्सर्गतः किञ्चित्कर्त्तव्यमिति गाथार्थः ॥ ४४ ॥ तदेवं सुपरीक्षितस्य सुविहितस्यैव वन्दनं कर्त्तव्यमिति व्यवस्थितम् । अथापवादतः Jain Education International For Private & Personal Use Only | श्रमणलिङ्ग दर्शने किं कर्त्तव्यम् इति प्रेरणम् प्रतिवचः inelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy