________________
इत्थं ववहारणओ, सुविहियभावम्मि वज्झकरणं पि । इच्छइ णेच्छइअणओ, भावं चिय तं परं बेइ ॥४१॥
'इत्थं'ति । 'अत्र' प्रकृताधिकारे व्यवहारनयो बाह्यकरणमपि सुविहितभावे इच्छति, अनेन भावक्रिययोर्द्वयोरप्यभ्युपगमात् : तथा च न साध्याविशेषः, साध्ये चारित्रलक्षणस्य भावस्याधिकस्य प्रवेशाद्धेतौ च तदाहितवाह्यक्रियाया एव निवे4 शादिति भावः । निश्चयनयस्तु 'परं' केवलं भावमेव 'तं' सुविहितभावं ब्रवीति न तु बाह्य क्रियामिच्छति । तथा च तन्मते न
॥ १६८ ॥
बहिर्वन्द्यवन्दकभावः किन्त्वन्तरेव, अन्तरात्मपरमात्मकल्पनया ध्यातृध्येयभावदशायाम् ; निरस्तसमस्तसङ्कल्पविकल्पसमा| धिदशायां तु चिन्मात्रावस्थाने नायमपीति । अत एव वन्दनप्रवृत्तिर्व्यवहारेणैवेति व्यवहारनयमतमधिकृत्य गुणाधिकत्व| परिज्ञानकारणानि प्रतिपादयन्नाहाचार्य इत्यवतारणिका 'आलएणं' इत्याद्यावश्यकगाथाया इति ॥ ४१ ॥ नन्वेवं बाह्यकरणस्योपयोगोऽभिहितः, लिङ्गस्य तु क उपयोगः ? इत्यत आह
लिंगं पि य ववहाराभिमयं जं तं विवज्जयाभावे । तदंसणे वि विणओ, ववट्टिओ जं भणियमेवं ॥४२॥
स्वोपज्ञवृतियुतः तृतीयो
Jain Education
'लिंग पि यत्ति | लिङ्गमपि व्यवहाराभिमतम्, 'यत्' यस्मात् तस्यापि मुनिगुणसंभावनाजनकत्वेन व्यवहारत आश्रयणीयत्वात् : 'तत्' तस्मात् 'विपर्ययाभावे' असुविहितत्वज्ञानाभावे 'तद्दर्शनेऽपि' लिङ्गदर्शनेऽपि 'विनयः' वक्ष्यमाणः संभावनामात्रनिमित्तको व्यवस्थितः, लिङ्गदर्शनोत्थापितसंभावनाजनितोऽयमभ्युत्थानादिमात्ररूपः । आलय विहाराद्याचारविशेपदर्शनरूपपरीक्षाजनितस्तु सर्वोऽप्युचित इति व्यवस्थार्थः । अत्र संमतिमाह - यद्भणितमेतदावश्यके ॥ ४२ ॥
For Private & Personal Use Only:
गुरुतत्त्वविनिश्चयः
ल्लासः
॥ १६८ ॥
Dhelibrary.org