SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ - __ 'एयमजुत्तं ति । एतदयुक्तं यल्लिङ्गमेव वन्दनीयतायां प्रवृत्ती वाङ्गमिति, यस्मालिङ्गमपि व्यभिचारेण नाङ्गमिति न हि 'अयं वन्दनीयः, लिङ्गवत्त्वात्' इत्यनुमानं संभवति, निह्नवेषु व्यभिचारात् , तत्र लिङ्गसत्त्वेऽपि वन्दनीयत्वस्याभावात् , अत एव लिङ्गवत्त्वावच्छेदेन वन्दनीयत्वज्ञानं न संभवतीति 'अयं लिङ्गवानतो वन्दनीयः' इति प्रत्यभिज्ञानमप्यसम्भवि, अत एव च लिङ्गवत्त्वं नेष्टसाधनतावच्छेदकमपीति 'अयं लिङ्गवान्' इति ज्ञानमपि नेष्टसाधनतावच्छेदकप्रकारकं सत् प्रवृत्तिनिर्वाहकमिति । अत्रार्थे संमतिमाह-यद् भणितमिदं लिङ्गस्य योऽभिनिवेशः-लिङ्गमेव वन्दनीयताङ्गमित्याकारो योऽसद्भहस्तन्निरासं अधिकृत्य' अभिप्रेत्य ।। ३५ ॥ जिइ ते लिंग पमाणं, वंदाही णिण्हए तुमं सवे। एए अवंदमाणस्स लिंगमवि अप्पमाणं ते ॥३६॥ 'जइ तेत्ति । 'यदि' इत्ययमभ्युपगमप्रदर्शनार्थः 'ते' तव 'लिङ्गं द्रव्यलिङ्गम् , अनुस्वारोऽत्र लुप्तो द्रष्टव्यः, प्रमाण वन्दनकरणे इत्थं तर्हि वन्दस्व 'निह्नवान्' जमालिप्रभृतीन् त्वं 'सर्वान्' निरवशेषान् , द्रव्यलिङ्गयुक्तत्वात्तेषामिति । अथै- तान् मिथ्यादृष्टित्वान्न वन्दसे त्वम् , ननु एतान् द्रव्यलिङ्गयुक्तानपि 'अवन्दमानस्य' अप्रणमतो लिङ्गमप्यप्रमाणं तव वन्दनप्रवृत्ताविति ॥ ३६ ॥ अत्राहनणु एसा पडिबंदी,ण य एवं पगयसाहगं किंची। ण य वज्झकरणओ चिय,सुविहिअभावस्स विन्नाणं ३७/ 'नणुत्ति । नन्वेषा प्रतिवन्दी यथा सुविहितत्वमगमकं तथा लिङ्गमप्यगमकमिति परपक्षवाधकवाडमात्रमेतत् , न तु किञ्चि SEARCHECK लिङ्गप्रामा ण्यवादिनो दोषापादनम् -SES -8 lain Education n ational For Private Personal Use Only hwnic.jainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy