________________
स्वोपज्ञवृ- तियुतः तृतीयो
॥१६६॥
CHAROKARDAREK
वर्तिनि पयोऽम्बुभेदित्वज्ञानं हंसपदवाच्यत्वप्रत्यभिज्ञायाम् , व्यवस्थितं चैतदाकरे, तदिह सुविहितो वन्दनीय इतिवाक्या- गुरुतत्त्वत्सुविहितत्वावच्छेदेन वन्दनीयत्वानुभवात्पुरोवर्तिनि सुविहितत्वज्ञानं वन्दनीयत्वे प्रमेये प्रत्यभिज्ञारूपतयाऽऽश्रयणीय विनिश्चयः स्यात्तदपि दुर्लभमेवेति । इति हेतोः 'लिङ्गं रजोहरणपतग्रहगोच्छकादिधरणलक्षणमङ्गम् , तस्य सुप्रतीतत्वात् । 'अयंहा वन्दनीयः, लिङ्गधारित्वात् , अयं लिङ्गधारी अतो वन्दनीयः' इत्यनुमानप्रत्यभिज्ञानयोरबाधितप्रसरत्वात् । एवं प्रवृत्त्यङ्ग-
II तयाऽपि लिङ्गमेवादरणीयं न तु सुविहितभावो दरवगमत्वात् । भवति चेष्टसाधनतावच्छेदकतया प्रवृत्त्यङ्गमपि तदेव,IXI पुरोवर्तिनीष्टसाधनतावच्छेदकज्ञानस्य प्रवर्तकत्वात । अत एवेदं रजतमितिज्ञानस्य रजतप्रवृत्ती हेतुत्वात् अन्यथाख्याति NI सिद्धेस्तत्र तत्र प्रदर्शितत्वादिति द्रष्टव्यम् ॥ ३३ ॥ उक्तार्थे संमतिमाह-भणिअंच-'भणिअं च'त्ति । भणितं चसुविहिअ दुविहियं वा, णाहं जाणामि हं खु छउमत्थो। लिंगं तु पुअयामी, तिगरणसुद्धेण भावेणं ॥३४॥
'सुविहियत्ति । शोभनं विहितम्-अनुष्ठानं यस्यासो सुविहितस्तम् , अनुस्वारलोपोऽत्र द्रष्टव्यः, दुर्विहितस्तु पार्श्वस्था-180 दिस्तं दुर्विहितं वा 'नाहं जानामि नाहं वेझि, यतोऽन्तःकरणशुद्ध्यशुद्धिकृतत्वं सुविहितदुर्विहितत्वम् , परभावस्तु तत्त्वतः सर्वज्ञज्ञानविषयः, 'अहं खु छउमत्थोत्ति अहं पुनश्छद्मस्थः, अतः 'लिङ्गमेव' रजोहरणगोच्छपतगृहधरणलक्षणं 'पूजयामि'
वन्दे इत्यर्थः 'त्रिकरणशुद्धेन भावेन' वाक्कायशुद्धेन मनसेत्यर्थः ॥ ३४ ॥ एतन्निराकर्तुमाहही एयमजुत्तं जम्हा, वभिआरेणं ण लिंगमवि अंग। भणियमिणं लिंगाभिणिवेसणिरासमहिगिच्च॥३५॥ प्रतिवचः
SACROGRESEARC-SCRECORRORCE
Jain Educati
o nal
For Private
Personal Use Only
egainelibrary.org