________________
SUSISISIRS
खणमविण खमं काउं, अणाययणसेवणं सुविहियाणं। हंदि समुदमुवगयं, उदयं लोणत्तणमुवेइ ॥३२॥ । 'खणमवित्ति । लोचननिमेषमात्रः कालः क्षणोऽभिधीयते, तं क्षणमप्यास्तां तावन्मुहूर्तोऽन्यो वा कालविशेषः 'न क्षम' अयोग्यं 'कर्तुं निष्पादयितुम् , अनायतनं-पार्श्वस्थाद्यनायतनं तस्य सेवन-भजनम् , केषाम् ? सुविहितानाम् , किम् ? इत्यत आह–'हन्दि' इत्युपदर्शने 'समुद्रमतिगतं' लवणजलधिं प्राप्तमुदकं मधुरमपि सत् 'लवणत्वमुपैति' क्षारभावं याति । एवं
सुविहितोऽपि पार्श्वस्थादिदोषसमुद्रं प्राप्तस्तद्भावमाप्नोति, अतः परलोकार्थिना तत्संसर्गिस्त्याज्येति । ततश्च व्यवस्थितमिदम्है|येऽपि पार्श्वस्थादिभिः सार्द्ध संसगि कुर्वन्ति तेऽपि न वन्दनीयाः, सुविहिता एव वन्दनीया इति ॥ ३२ ॥ अत्र कश्चिदाह
नणु वंदणिज्जयाए, सुविहिअभावो ण जुज्जए अंगं । जं सो छउमत्थाणं, दुन्नेयो लिंगमिय अंगं ॥३३॥ लिङ्गस्यैव | 'नणुत्ति । ननु वन्दनीयताया अङ्गं सुविहितभावो न युज्यते, 'यत्' यस्मात् सः' सुविहितभावः 'छद्मस्थानाम् अनु- वन्दनीयता. पहतघातिकर्मणां दुर्जेयः, अयं सुविहितोऽसुविहितो वेत्यन्तर्गतभावस्य दुरवगमत्वात् । अयं भावः-चन्दनीयत्वं तावदिष्टसा- हेतुत्वमिति धनवन्दनकत्वम् , तज्ज्ञानं च पुरोवर्त्तिन्यवश्यमपेक्षितम् , अन्यथा पुरोवर्तिनि वन्दनप्रवृत्त्यसिद्धेः। तत्र च प्रमाणगवेषणायां न तावत्सुविहितभावोऽनुमानतयाऽङ्गं गमकमित्यर्थः, अनवगतत्वाद्धेतोश्च निश्चितस्यैव साध्यसिद्धिक्षमत्वात् ; नापि प्रत्यभिज्ञानतया, यतो यद्धर्मावच्छेदेन प्रत्यभिज्ञाविधेयमनुभूतं पुरोवर्तिनि तद्धर्मज्ञानमेव प्रत्यभिज्ञानरूपं प्रमाणमित्यस्माकमभ्युपगमः, यथा-"पयोऽम्बुभेदी हंसः स्यात्” इतिवाक्यात् पयोऽम्बुभेदित्वावच्छेदेन हंसपदवाच्यत्वानुभवे सति पुरो-12
पनम्
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org