________________
CONCR
MagOCALCERSook
घरस्स सो सामी कओ, इयरे चत्तारि वि बाहिरा कया लोगगरहिया य जाया, एस दिलुतो । उवणओ से इमो-जारिसा पक्कणा तारिसा पासत्थादी, जारिसो धिज्जाइओ तारिसो आयरिओ, जारिसा पुत्ता तारिसा साहू, जहा ते निच्छूढा एवं आणिच्छुभंति कुसीलसंसगिंग करिता गरहिआ य पवयणे भवंति, जो पुण परिहरइ सो पुजो साइअपजवसिअं णिहाणं पावई"त्ति ॥ २७॥ ननु कः पार्श्वस्थादिसंसर्गमात्राद्गुणवतो दोषः ? न हि काचमणिकैः सह प्रभूतकालमेकत्र तिष्ठन्नपि वैडूर्यमणिः काचभावमुपैति स्वगुणप्राधान्यात् , न वा नलस्तम्ब इधुवाटमध्ये वसन्नपीक्षुसंसर्गतो मधुरत्वमुपयाति स्वदो-12 पप्राधान्यात् , एवं गुणवानपि पार्श्वस्थादिसंसर्गे न गुणांस्त्यक्ष्यतीत्यत आह
भावुगदत्वं जीवो, कुसीलसंसग्गओ विणस्सिजा।थोवो वितप्पसंगो, अओ णिसिद्धो सुविहिआणं॥२८॥ प्रार्श्वस्यादिM भावुगदति । इह हि द्विविधानि द्रव्याणि भवन्ति-भाव्यानि अभाव्यानि च । तत्र भाव्यन्ते-स्वप्रतियोगिना स्वगु- संसयौ दो
रात्मभावमापाद्यन्त इति भाव्यानि, तानि प्राकृतशैल्या भावुकान्युच्यन्ते । अथवा प्रतियोगिनि सति तद्गुणापेक्षया पापादनम् तथाभवनशीलानि भावुकानि, ताच्छीलिक उकञ्प्रत्ययः, तद्विपरीतान्यभाव्यानि । तत्र जीवो भावुकद्रव्यमनादिकाली
नपार्श्वस्थाद्याचरितप्रमादभावनापाचविपरीतपरिणाम इति यावत् , स च तथाभूतः सन् कुशीलसंसर्गतो विनश्येत्, वैडूठायनडादीनि त्वभावुकद्रव्याणीति न तदृष्टान्तोपष्टम्भेन जीवस्यापि संसर्गजस्वभावाननुविधायित्वमिति भावः । अपि च
जीवोऽपि केवली तावदभाव्य एव । सरागास्तु पार्श्वस्थादिभिर्भाव्याः । सरागा अपि परिपाकप्राप्तयोगा उत्कृष्टज्ञानपरिणतिशालिनो यद्यप्यभाव्यास्तथाऽपि मध्यमदशावर्त्तिनो भाव्या एव । अतः स्तोकोऽपि तेषामालापमात्रादिलक्षणः संसर्गः
A
in Education International
For Private & Personal use only
www.jainelibrary.org