________________
स्वोपज्ञवृत्तियुतः
तृतीयो
॥ १६२ ॥
Jain Education in
पुनः किंविशिष्टम् इत्याह- 'मूल' प्रथमं कारणं 'संसारदुःखमोक्षस्य' समस्तसांसारिक दुःख विमोक्षणस्य, तदेवंभूतं सम्यक्त्वं मलिनायित्वाऽऽत्मनो दुर्गतिवर्धका भवन्ति, दुर्गतिस्तेषामेवं वदतां फलमिति भावः ॥ १९ ॥ उक्तो यथाछन्दस्तदेवमभिहिताः पञ्चापि पार्श्वस्थादयः, अथैतेषां वन्दनप्रशंसनयोर्दोषमुपदर्शयति
एएसिं पंचण्हं, णिइआणं तह य काहिआईणं । आणाईआ दोसा, पसंसणे वंदणे वावि ॥ १२० ॥
'एएसिं'ति । एतेषां 'पञ्चानां' पार्श्वस्थादीनां तथा 'नित्यानां' नित्यवासिनां काथिकादीनां च चतुर्णा प्रशंसने वन्दने चापि आज्ञादयो दोषा भवन्ति, आज्ञाभङ्गोऽनवस्था मिथ्यात्वं विराधना चेत्यर्थः । तत्र भगवत्प्रतिकुष्टवन्दने आज्ञाभङ्गः तं दृष्ट्वाऽन्येऽपि वन्दन्त इत्यवस्थाविलोपादनवस्था । तान् वन्दमानान् प्रामाणिकान् दृष्ट्वाऽन्येषां तेषु साधुत्वबुद्ध्या मिथ्यात्वम् । कायक्लेशतो देवताभ्यो वाऽऽत्मविराधना, तइन्दनेन तत्कृताऽसंयमानुमोदनात्संयमविराधना चेति ॥ १२० ॥ पार्श्वस्थांदिवन्दने दोषोक्तौ संमतिमाह - भणिअं च-भणितं चावश्यके
पासत्थाई वंदमाणस्स, णेव कित्ती ण णिज्जरा होइ । कायकिलेसो एमेव, कुणई तह कम्मबंधं च ॥२१॥ 'पासत्थाइ'त्ति । ‘पार्श्वस्थादीन्' उक्तलक्षणान् 'वन्दमानस्य' नमस्कुर्वतो नैव कीर्त्तिर्न निर्जरा भवति । तत्र कीर्त्तनंकीर्त्तिः - अहो अयं पुण्यभागित्येवंलक्षणा सा न भवति अपि त्वकीर्त्तिर्भवति, नूनमयमप्येवंस्वरूपो येनैषां वन्दनं करोति । तथा निर्जरणं निर्जरा - कर्मक्षयलक्षणा सा न भवति तीर्थकराज्ञाविराधनद्वारेण निर्गुणत्वात्तेषामिति । चीयत
For Private & Personal Use Only
गुरुतत्त्वविनिश्चयः
ल्लासः पार्श्वस्थादी
नां वन्दना
दौ दोषोपद
र्शनम्.
आवश्यकसाक्ष्यम्
॥ १६२ ॥
www junelibrary.org