________________
SHRMSRISHCAREESOMEGROCOCCC
व्यवस्थितम् , नित्यवासिचैत्यभक्तिपरप्रभृतियथाछन्दानां नित्यवासचैत्यभक्त्यादिविषयस्योत्सूत्रस्यावस्थितत्वान्निह्नवानामपि केषाञ्चित्क्रमिकनानोत्सूत्राभ्युपगमवतामुत्सूत्रस्यानवस्थितत्वाच्च । किञ्च प्रतिसेव्यमानमेव परेभ्यः प्ररूपयन् यथाछन्दो भणित इति स्वप्रतिसेवाननुकूलेनानवस्थितेनाप्युत्सूत्रेण कथं यथाछन्दत्वं स्यात् ? इति प्रागुक्तमेव युक्तमिति यथाऽऽगममवधेयं सुधीभिः ॥ १७ ॥ अथैते यथाछन्दाः किं गीतार्थाः भवन्ति ? उतागीतार्थाः ? इत्येतदाह
ते इंति अगीयत्था, एगागिविहारिणो अहाछंदा । सुहपरिणामालंबणदंसी गीया वि भग्गवया॥१८॥ है। 'ते हुतित्ति । 'ते' प्रागुक्तस्वरूपाः 'यथाछन्दाः' यशःपूजाद्यर्थमेकाकिविहारिणोऽगीतार्था भवन्ति, तथाविधशास्त्रपरि
ज्ञानाभावेन पारतन्याभावेन च स्वप्रतिज्ञातस्वच्छन्दाचारानुकूलतयैव तैः प्ररूपणात् । तथा 'गीता अपि' गीतार्था अपि द्रव्यतो भावतो भग्नव्रताः सन्तः स्वोत्प्रेक्षितस्य शुभपरिणामस्य-नियतवासादिसुन्दरताऽध्यवसायस्य यदालम्बनं-सङ्गमस्थविरादिज्ञातं तदर्शयितुं शीलं येषां ते तथा, तेऽपि स्वादृतशिथिलाचारानुकूलप्ररूपणाद् यथाछन्दा भवन्तीत्यर्थः॥१८॥ अथैवं वितथप्ररूपणाकारिणां यथाछन्दानां दोषमुपदर्शयति भाष्यगाथयाजिणवयणसवसारं, मूलं संसारदुक्खमुक्खस्स । सम्मत्तं मइलित्ता, ते दुग्गइवड्डया हुंति ॥ १९॥ |
'जिणवयणत्ति । 'ते' यथाछन्दाश्चरणेषु गतिषु चैवं ब्रुवाणाः 'सम्यक्त्वं' सम्यग्दर्शनम् , कथम्भूतम् ? इत्याह-जिनानांसर्वज्ञानां वचनं जिनवचनं-द्वादशाङ्गं तस्य सारं-प्रधानम्, प्रधानता चास्य तदन्तरेण श्रुतस्य पठितस्याप्यश्रुतत्वात् ,
Jain Education International
For Private & Personal use only
www.jainelibrary.org