SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ गुस्त. २८ इति कायः - देहस्तस्य क्लेशः - अवनामादिलक्षणः कायक्लेशस्तम् 'एवमेव' मुधैव 'करोति' निर्वर्त्तयति । तथा क्रियत इति कर्म-ज्ञानावरणीयादिलक्षणं तस्य बन्धः - विशिष्टरचनयाऽऽत्मनि स्थापनम् तेन चात्मनो बन्धः - स्वरूपतिरस्करणलक्षणः कर्मबन्धस्तं कर्मबन्धं करोति, चशब्दादाज्ञाभङ्गादींश्च दोषानामुते ॥ २१ ॥ एवं तावत्पार्श्वस्थादीन् वन्दमानस्य दोषा उक्ताः, साम्प्रतं पार्श्वस्थादीनामेव गुणाधिकवन्दनप्रतिषेधमकुर्वतामपायान् प्रदर्शयन्नाह — जे वंभचेरभट्ठा, पाए उडेंति वंभयारीणं । ते हुंति कुंटमुंटा, वोही य सुदुलहा तेसिं ॥ २२ ॥ 'जे' त्ति। ‘ये' पार्श्वस्थादयः 'भ्रष्टब्रह्मचर्याः' अपगतब्रह्मचर्या इत्यर्थः, ब्रह्मचर्यशब्दो मैथुनविरतिवाचकस्तथौघतः संयमवाचकश्च, 'पाए उडेंति वंभयारीणं पादावभिमानतोऽवस्थापयन्ति ब्रह्मचारिणां वन्दमानानामिति तद्वन्दननिषेधनं न कुर्वन्तीत्यर्थः, ते तदुपात्तकर्मजं नारकत्वादिलक्षणं विपाकमासाद्य यथाकथञ्चित् कृच्छ्रेण मानुषत्वमासादयन्ति तदापि भवन्ति कोण्टमुण्टाः । 'वोधिश्च' जिनशासनावबोधलक्षणा सकलदुःखविरेकभूता सुदुर्लभा तेषाम्, सकृत्प्राप्तौ सत्यामप्यनन्तसंसारित्वादिति गाथार्थः ॥ २२ ॥ सुट्टुयरं नासंती, अप्पाणं चरणकरणपव्भट्ठा | गुरुजण वंदावंती, सुस्समण जहुत्तकारिं च ॥ २३ ॥ 'सुयरं 'ति । सुतरां नाशयन्त्यात्मानं सन्मार्गात्, के? ये चारित्रात् प्रकर्षेण भ्रष्टाः - अपेताः सन्तः 'गुरुजनं' गुणस्थसाधुवर्ग 'वन्दयन्ति' कृतिकर्म कारयन्ति । किं भूतं गुरुजनम् ? शोभनाः श्रमणा यस्मिन् स सुश्रमणस्तम्, अनुस्वा Jain Education International For Private & Personal Use Only: गुणाधिकानां वन्दमा नानामप्रति पेधतां पा वस्थादीना मपायदर्श नम्. www.jainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy