SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ प्रत्युत भिक्षाशुद्धिरित्यादि ग्राह्यम् । 'पलियंकरत्ति पर्यङ्कादिषु मत्कुणादिरहितेषु परिभुज्यमानेषु न कोऽपि दोषः, केवलं भूमावुपविशतो लाघवादयो बहुतरा दोषाः । 'निसेज्जासेवण'त्ति गृहिनिषद्यायां सेव्यमानायां गृहेषु निषद्याग्रहण इत्यर्थः को नाम दोषोऽपि त्वतिप्रभूतो गुणः, ते हि जन्तवो धर्मकथाश्रवणतः संवोधमा नुवन्ति । 'गिहिमत्ते' त्ति गृहिमात्र के भोजनं कस्मान्न क्रियते ?, एवं हि काष्ठमृदाद्यसुन्दरपात्रानासेवित्वेन प्रवचनोपघातः परिहृतो भवति, अन्यपात्रभारावहनं च स्यादिति । तथा 'णिग्गंथिचेगुणाइति निर्ग्रन्थीनामुपाश्रयेऽवस्थानादौ को दोषः ?, सङ्किष्ट मनोनिरोधेन ह्यसक्लिष्टमनः संप्रधारणीयमिति भागवत उपदेशः, तच्चासङ्किष्टमनः संप्रधारणं यत्र तत्र स्थितेन क्रियतामिति न कश्चिद्दोषः, अन्यथा ह्यन्यत्रापि स्थितो यद्यशुभं मनः संप्रधारयति तत्र किं न लिप्यते ? इति । तथा मासकल्पस्य प्रतिषेधस्तेन क्रियते, यथायदि मासकल्पात्परतो दोषो न विद्यते तदा तत्रैव तिष्ठन्तु मा विहारक्रमं कार्षुरिति ॥ ७ ॥ चारे वेरजे या, पढमसमोसरण तह य णितिएसु । सुन्ने अकपिए आ, अण्णाउंछे य संभोगे ॥ ८ ॥ 'चारे'ति । चारश्चरणं गमनमित्येकोऽर्थः तद्विषये ब्रूते, यथा चतुर्षु मासेषु मध्ये यावद्वर्षं पतति तावन्मा विहारक्रमं कार्षुः, यदा तु न पतति वर्षं तदा को दोषो हिण्डमानानाम् ? इति । तथा वैराज्येऽपि ब्रूते, यथा वैराज्येऽपि साधवो विहारक्रमं कुर्वन्तु, परित्यक्तं हि साधुभिः परमार्थतः शरीरम्, तद् यदि ते ग्रहीष्यन्तीति किं क्षुण्णं साधूनाम् ? सोढव्याः खलु साधुभिरुपसर्गाः, ततो यदुक्तम् — “नो कप्पइ णिग्गंथाणं वेरज्जविरुद्धरजंसि सज्जं गमणं सज्जं आगमणं "ति तदयुक्तमिति । 'पढमसमोसरणं' ति प्रथमसमवसरणं नाम वर्षाकालस्तत्र ब्रूते, यथा प्रथमसमवसरणे उद्गमादिदोषपरिशुद्धं वस्त्रं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy