________________
ROSSAUROSAISES
रजोहरणस्य द्वाभ्यां निषद्याभ्यां कर्त्तव्यम् ? एका निषद्याऽस्तु । 'पायमत्तए'त्ति यदेव पात्रं तदेव मात्रक क्रियताम्, मात्र वा पात्रं क्रियतां किं द्वयोः परिग्रहेण ? एकेनैवान्यकार्यनिष्पत्तेः, भणितं च- "यो भिक्षुस्तरुणो बलवान् स एकं पात्रं गृह्णीयात्" इति । तथा 'पट्टत्ति य एव चोलपट्टकः स एव रात्रौ संस्तारकस्योत्तरपट्टः क्रियतां किं पृथगुत्तरपट्टग्रहेण ? । तथा | 'पडलाई चोल'त्ति पटलानि किमिति पृथग् ध्रियन्ते? चोलपट्टक एव भिक्षार्थ हिण्डमानेन द्विगुणस्त्रिगुणो वा कृत्वा पटलस्थाने निवेश्यताम् । 'दसियत्ति रजोहरणस्य दशाः किमित्यूर्णमय्यः क्रियन्ते ? क्षोमिकाः क्रियन्तां ? ता पुर्णमयीभ्यो
मदतरा भवन्ति । 'पडिलेहपोत्तंति प्रतिलेखनावेलायामेकं पोतं प्रस्तार्य तस्योपरि समस्तवस्त्रप्रत्युपेक्षणां कृत्वा तदनन्तकारमुपाश्रयात्तद्वहिः प्रत्युपेक्षणीयम् , एवं हि महती जीवदया कृता भवतीति ॥ ४॥
दंतच्छिन्नमलित्तं, हरियट्ठिय मजणा य णितस्स।अणुवाइ अणणुवाई, परूव चरणे गतीसुं पि॥५॥ । 'दंतच्छिन्न मिति । हस्तगताः पादगता वा नखाः प्रवृद्धा दन्तैश्छेत्तव्या न नखरदनेन, नखरदनं हि ध्रियमाणमधिककरणं भवति । तथा 'अलिप्तमिति पात्रमलिप्तं कर्त्तव्यं न पात्रं लेपनीयमिति भावः, पात्रलेपने बहुसंयमदोषसम्भवात् । 'हरिअट्ठित्ति हरितप्रतिष्ठितं भक्तपानादि डगलादि च ग्राह्यम् , तद्हणे हि तेषां हरितकायजीवानां भारापहारः कृतो भवति, अन्यथा तु दुःखितदुःखानपहारेणादयालुत्वं स्यादिति । 'पमजणा य जिंतस्सत्ति यदि छन्ने जीवदयानिमित्तं | प्रमार्जना क्रियते ततो बहिरप्यच्छन्ने क्रियताम् , जीवदयापरिपालनरूपस्य निमित्तस्योभयत्रापि सम्भवात् । अक्षरघटना त्वेवम्-'नितस्स' निर्गच्छतः प्रमार्जना भवतु यथा वसतेरन्तरिति । एवं यथाछन्देन चरणेषु गतिषु च प्ररूपणा 'अनुपा
lain E
stonintematon
For Private Personel Use Only