________________
"तत्राद्यो वर्षाकालं विनाऽपि शेषकालेऽपि पीठफलगा(का)दिपरिभोजी" इति । उपदेशमालायामपि पार्श्वस्थादिस्थानाभिधानाधिकारे-"पीढफलगपडिबद्धो" इत्यत्र ऋतुबद्धेऽपि पीठादिसेवनासक्त इति व्याख्यातम् । व्यवहारचूर्णावपि -"उडुबद्धे वि णिक्कारणे संथारएसु सुवई"इत्याद्युक्तम् । एतच्च सर्वमप्युद्वद्धऋतुबद्धपाठभेदेन संगतम् । अयं च सङ्केपतोऽवसन्नो यः 'मिथ्यासामाचारीलग्नः' सामाचारीवैतथ्यकारी, यो वा प्राप्तं प्रायश्चित्तमकुर्वस्तिष्ठति । तदुक्तं निशीथचूणौं-"सामायारिं वितह, ओसन्नो जं च पावए जत्थ ।" इत्यस्य प्रतीकस्य व्याख्याने-"सवं सामायारि वितहं करितो ओसन्नो जं वा मूलुत्तरगुणातिआरं जत्थ किरियाविसेसे पयट्टो पावइ तं अनिंदितो अणालोअंतो पच्छित्तं अकरितो ओसन्नो भवई"त्ति । व्यवहारवृत्तौ त्वेतत्प्रतीकं प्रायश्चित्तोपदर्शनपरतया व्याख्यातम् , तथाहि-सामाचारी-ज्ञानादिसामाचारी 'काले विणए' इत्यादिरूपाम् , यदि वा सूत्रमण्डल्यर्थमण्डल्यादिगतां सामाचारी वितथा कुर्वन् यत्र स्थाने यत्प्रायश्चित्तं प्रामोति तत्र तस्य स्वस्थाननिष्पन्नं प्रायश्चित्तमिति ॥ ८६ ॥ उक्तोऽवसन्नः। अथ कुशीलमाहतिविहो होइ कुसीलो, नाणे तह दंसणे चरित्ते य। नाणम्मि णियायारब्भंसे एमेव दसणओ ॥ ८७॥ कुशीलः _ 'तिविहोत्ति । त्रिविधो भवति कुशीलो ज्ञानकुशीलो दर्शनकुशीलश्चारित्रकुशीलश्चेति । तत्र ज्ञाने कुशीलो निजाचा-181 राणां-कालविनयादिकानां भ्रंशे-विराधने भवति । एवमेव निःशङ्कितत्वादीनां निजाचाराणां भ्रंशे दर्शनतः कुशीलः॥८७॥ ।
चरणकुचरणे कोउअभूई पसिणापसिणे णिमित्तमाजीवी । कककुरुआइलक्षणमुवजीवइ विजमंताई ॥८॥ शीलः
JainEducad
For Private
Personal Use Only
wanamainelorery.org