________________
स्वोपज्ञ
तृतीयो॥१५३॥
म्मुखं किञ्चिदनिष्टं जल्पित्वा हिण्डते, अनुपयुक्तो वा भिक्षाविशुद्धिं न करोति । तथा 'भक्तार्थ' भक्तविषयं प्रयोजनं गुरुतत्त्व सम्यग् न करोति, किमुक्तं भवति?-न मण्डल्यां समुद्दिशति, काकशृगालादिभक्षितं वा करोति, द्वाभ्यां वा सह भुते, विनिश्चयः तदुक्तं निशीथचूर्णी-"भत्तट्ठ त्ति मंडलीए कयाइ भुंजइ कयाइ ण मुंजइ मंडलिसामायारिं वा ण करेइ दोहिं वा ल्लासः
जइ"त्ति । व्यवहारचूर्णी तूक्तम्-"भत्तद्वे त्ति मंडलीए ण समुद्दिसइ कागसिआलक्खइआईहिं वा समुद्दिसइ"त्ति । अन्ये तु व्याचक्षते-'अभत्तट्टत्ति अभक्तार्थग्रहणं सकलप्रत्याख्यानोपलक्षणम् , तथा चायमर्थः-प्रत्याख्यानं न करोति गुरुणा वा भणितो गुरुसंमुखं किञ्चिदनिष्टमुक्त्वा करोति । आगमने नैषेधिकीं न करोति निर्गमने आवश्यकीम् । 'स्थाने अर्द्धस्थाने 'निपीदने उपवेशने 'त्वग्वर्त्तने' शयने, एतेषु क्रियमाणेषु न प्रत्युपेक्षणं करोति न वा प्रमार्जनं करोति, प्रत्यु|पेक्षणप्रमार्जने वा दोषदुष्टे करोति ॥ ८५ ॥ उक्तो देशाबसन्नः । अथ सर्वावसन्नमाह
ठवियगरइअगभोई, सवे उउबद्धपीढफलगो य । मिच्छासामायारीलग्गो सो पत्तमकरितो ॥ ८६॥सर्वावसन्नः | 'ठवियगत्ति । स्थापितकभोजी-स्थापनादोषदुष्टप्राभृतिकाभोजी, तथा रचितकं नाम कांस्यपात्र्यादिषु पटादिषु वा यदशनादि देयबुद्ध्या वैविक्त्येन स्थापितं तद्भधे इत्येवंशीलो रचितकभोजी, तथाऽबद्धपीठफलको यः पक्षस्याभ्यन्तरे पीठफलकादीनां बन्धनानि मुक्त्वा प्रत्युपेक्षणां न करोति यो वा नित्यावस्तृतसंस्तारक इति व्यवहारवृत्तौ । निशीथ
गोवप्युक्तम्-"जो अपक्खस्स पीढफलगादिआणं बंधे मुत्तु पडिलेहणं न करेइ सो संजओ उब्बद्धपीढफलगो अहवा| ॥१५३॥ णिच्चुत्थरिअसंथारगो उब्बद्धपीढफलगो भण्णति"त्ति । वन्दनकभाष्यव्याख्याने तु सर्वावसन्नाधिकार एवमुक्तम्
5555
Jain Education International
For Private
Personal Use Only
nefibrary.org