SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृतियुतः तृतीयो - ॥ १४८ ॥ साधवो न ग्रहीतव्याः, तस्यैव तान् प्रत्यर्पयति । अथ वास्तव्याचार्यस्य साधवो न पूर्यन्ते तत एकं सङ्घाटकं तस्य प्रयच्छन्ति, तं मुक्त्वा शेषानात्मना गृह्णाति । अथ वास्तव्याचार्यः सर्वथैवासहायस्ततः सर्वानपि गृह्णाति ॥ ६१ ॥ सहुअसहुस्स वि तेण वि, वेयावच्चाइ सब कायद्दं । ते तेसिमणाएसा, वावारेउं ण कप्पंति ॥ ६२ ॥ 'सहुअस हुस्स वित्ति । तेनापि प्रतीच्छकाचार्यादिना तस्याचार्यस्य सहिष्णोरसहिष्णोर्वा वैयावृत्त्यादिकं सर्वमपि कर्त्तव्यम् । तेऽपि साधवस्तेषामाचार्याणामादेशमन्तरेण व्यापारयितुं न कल्पन्ते ।। ६२ ।। कप्पम्मि इमं सवं, भणिअं णाऊण सुगुरुसंसग्गी । कायवा कुगुरूणं, वजेअवा इमे ते य ॥ ६३ ॥ 'कप्पम्मि'त्ति | 'कल्पे' कल्पाध्ययने तृतीयखण्डप्रान्ते सर्वमिदं भणितं ज्ञात्वा सुगुरुसंसर्गिः कर्त्तव्या । कुगुरूणां च संसर्गिर्वर्जयितव्या, ते चेमे ॥ ६३ ॥ पासत्थो ओसन्नो, होइ कुसीलो तहेव संसत्तो । अहछंदो वि य एए, अवंदणिजा जिणमयम्मि ॥ ६४ ॥ 'पासत्थो 'ति । पार्श्वस्थोऽवसन्नो भवति कुशीलस्तथैव संसक्तो यथाच्छन्दोऽपि च एतेऽवन्दनीया भवन्ति, क्व ? जिनमते, न तु लोक इत्यर्थः ॥ ६४ ॥ तत्र पार्श्वस्थं निरूपयतिपासत्थो दुवियप्पो, देसे सवे य होइ णायवो । सङ्घम्मि नाणदंसणचरणाणं जो उपासम्म ॥ ६५ ॥ 'पासत्थो' त्ति । पार्श्वे ज्ञानादिगुणानां यत्याचारस्य वा तिष्ठति न तु तदन्तर्गत इति पार्श्वस्थः, स च द्विविकल्पः, देशे Jain Education International For Private & Personal Use Only गुरुतत्त्वविनिश्चयः लासः कुगुरुवर्ज नम् कुगुरवः पार्श्वस्थ ॥ १४८ ॥ www.jainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy