________________
'ओहावियत्ति । अवधावितस्यावसन्नस्य वा गुरोः क्रमयोः-पादयोः शीर्षमसागारिके प्रदेशे कृत्वा भणति-भगवन् ! अनाथा वयं युष्मान् विनाऽतः प्रसीद भूयः संयमे स्थितः सनाथीकुरु डिम्भकल्पानस्मान् । शिष्यः पृच्छति-तस्याचारित्रिणश्चरणयोः कथं शिरो विधीयते ? गुरुराह–'दुष्पतिकरं' दुःखिनां (खेन ) प्रतिकत्तुं शक्यं यतस्त्रयाणां मातापित्रोः स्वामिनो धर्माचार्यस्य च भणितं स्थानाङ्गे, ततोऽत्र विधौ न दोष इति ॥५६॥ किञ्चजोजेण जम्मि ठाणम्मि ठाविओ दंसणे व चरणे वा।सोतं तओचुअंतम्मि चेव काउंभवे निरिणो॥५७॥ | 'जो जेण'त्ति । यो येनाचार्यादिना यस्मिन् स्थाने स्थापितः, तद्यथा-दर्शने चरणे वा 'स' शिष्यः 'त' गुरुं 'ततः दर्शनाच्चरणाद्वा च्युतं 'तत्रैव' दर्शने वा चरणे वा 'कृत्वा स्थापयित्वा निर्ऋणः'ऋणमुक्तो भवति, कृतप्रत्युपकार इत्यर्थः॥५७॥
तीसु वि दीवियकज्जा, विसजिआ जइ अ तत्थ तं णत्थि।
णिक्खिविय वयंति दुवे, भिक्खू किं दाणि णिक्खिवइ ? ॥ ५८॥ | 'तीसु वित्ति । 'त्रिष्वपि' ज्ञानदर्शनचारित्रेषु व्रजन्तो भिक्षुप्रभृतयः 'दीपितकार्याः' पूर्वोक्तविधिना निवेदितस्वप्रयोजना गुरुणा विसर्जिता गच्छन्ति । यदि च 'तत्र' गच्छे 'तद्' अवसन्नतादिकं कारणं नास्ति तत उपसंपद्यते नान्यथा । 'द्वौ'
गणावच्छेदकाचार्योपाध्यायौ यथाक्रमं गणावच्छेदकत्वमाचार्योपाध्यायत्वं च निक्षिप्य ब्रजतः । यस्तु भिक्षुः स किमि18दानी निक्षिपतु ? गणाभावान्न किमपि तस्य निक्षेपणीयमस्ति, अत एव सूत्रे.तस्य निक्षेपणं नोक्तमिति भावः । अत्र ४
CROGRESCOACCALCOMCHOCK
Jain Education International
For Private & Personal use only
www.jainelibrary.org