________________
गुरु. २५
वित्तवओ उ अगीओ, थेराणं अंतिअम्मि गीआणं । पढइ अभावे तेसिं, गच्छइ अण्णत्थ चोईतो ॥ ५२ ॥ 'वत्तवओ उ'त्ति । योऽसौ वयसा व्यक्तः परमगीतार्थस्तस्य च गच्छे स्थविरा गीतार्थाः सन्ति तदा स तेषामन्तिके पठति गच्छमपि परिवर्त्तयति, अवसन्नाचार्यं चान्तराऽन्तरा नोदयति, एवं नोदयंस्तेषां स्थविरगीतार्थानामभावे गणं गृहीत्वाऽन्यत्र गच्छति ॥ ५२ ॥ गतस्तृतीयो भङ्गः । अथ चतुर्थभङ्गमाह -
वहावगाणऽभावे, उभयावत्तो उ अण्णमुद्दिसइ । संविग्गागी अत्थण्णयरुद्देसम्मि चउगुरुगा ॥ ५३ ॥
'वट्टावगाण' त्ति । यः पुनः 'उभयाव्यक्तः श्रुतेन वयसा चाव्यक्तस्तस्य यदि स्थविरा: पाठयितारो विद्यन्तेऽपरे च गच्छवर्त्तापकास्ततोऽसावपि नान्यमुद्दिशति, 'वर्त्तापकानां' स्थविराणामभावे च नियमादन्यमुद्दिशति । एतद्भङ्गचतुष्टयान्यतरवित्त अन्यमाचार्यमुद्दिशन् यद्यसंविग्नागीतार्थान्यतरं संविग्नमगीतार्थमसंविग्नमगीतार्थं वा उद्दिशति तदा चतुर्गुरुकप्रायश्चित्तम् । अत्र च " सत्तरत्तं तवो होई" त्यादिना प्रायश्चित्तवृद्धिरपि द्वितीयोल्लासोक्तक्रमेण ज्ञातव्या ॥ ५३॥ छट्ठाणविरहिअं पि हु, संविग्गं काहिआइदोसजुअं । सेवते आणाई, चउरो अ तहा अणुग्घाया ॥ ५४॥
'छट्ठाण'ति । षट्स्थानानि - पार्श्वस्थावसन्नकुशीलसंसक्तयथाच्छन्दनित्यवासिलक्षणानि तैर्विरहितमपि 'संविग्नं' गीतार्थ कायिकादिदोषयुक्तं 'सेवमाने' उपसंपद्यमाने चत्वारो मासा अनुद्धाता आज्ञादयश्च दोषाः । तत्र काथिकादयश्चत्वारः, काथिकदार्शनिकमामकसंप्रसारकभेदात्, एतेषां च स्वरूपमित्थं प्रकल्पाध्ययनेऽभिहितम् - " सज्झायादिकरणिज्जे जोगे
Jain Educationational
For Private & Personal Use Only)
काधिकः
www.jainelibrary.org