SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृ-तियुतः तृतीयो ॥ १४४ ॥ - प्याचार्येऽनिच्छति संयमे स्थातुं 'त्रिकं' वर्षत्रयं यावत्कुले दिग्बन्धः, कुलसत्कमाचार्योपाध्यायमुद्दिशेदित्यर्थः, ततस्त्रयाणां वर्षाणां परतः सचित्तादिकं कुलाचार्यो हरतीति गणाचार्यमुद्दिशति, तत्र संवत्सरं दिग्बन्धः, ततः संवत्सरं तत्र स्थित्वा सङ्घाचार्यस्य दिग्बन्धं प्रतिपद्यार्द्ध वर्षं तत्र तिष्ठति । कुलागणं गणाच्च सङ्घ सङ्क्रामन्नाचार्यमिदं भणति यत्त्वदीयकुलाचार्या अस्माकं वर्षत्रयादूर्द्ध सचित्तादिकं हरन्ति अतः कुलमपि नेच्छामः, यदि त्वमिदानीमपि न तिष्ठसि ततो वयं गणं सङ्घ वा व्रजाम इति ॥ ४९ ॥ एवं पि अ अणुवरए, वयवत्तो अपंचमे वरिसे । सयमेव धरेइ गणं, अणुलोमेणं च सारेइ ॥ ५० ॥ ‘एवं पिय'त्ति । 'एवमपि' कुलगणसङ्घसङ्क्रमनोदनाक्रमेणापि 'अनुपरते 'अगृहीतचारित्रपरिणामे पूर्वाचार्ये सति अर्द्धपञ्चमैर्वर्षेः, सप्तम्येकवचनस्य तृतीयाबहुवचनार्थत्वात्, वयसाऽपि व्यक्तो जातः स्वयमेव गणं धारयेत् । यत्र च पूर्वाचार्यं पश्यति तत्रानुलोमवचनैस्तथैव सारयति ॥ ५० ॥ विद्यावेउं सत्ता, जइ थेरा संति तम्मि गच्छामि । दुहओ वत्तसरिसओ, ओ गमओ तया तस्स ॥ ५१ ॥ 'वट्टावे 'ति । यदि तस्मिन् गच्छे स्थविरा गच्छं वर्त्तापयितुं शक्ताः सन्ति ततः कुलगणसङ्घषु नोपतिष्ठते किन्तु स स्वयं सूत्रार्थी शिष्याणां ददाति, स्थविरास्तु तं गच्छं परिवर्त्तयन्ति । एवं च तदा तस्य श्रुतव्यस्य द्विधा व्यक्तसदृशो गमो भवति ज्ञेयः ॥ ५१ ॥ गतो द्वितीयो भङ्गः । अथ तृतीयभङ्गमाह - For Private & Personal Use Only Jain Education International गुरुतत्त्वविनिश्चयः ल्लासः ॥ १४४ ॥ www.jainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy