________________
‘वत्तस्स ंत्ति । अवसन्नाचार्यादिशिष्य आचार्यपदयोग्यो हि व्यक्तोऽव्यक्तो वा भवेत् । तत्र चतुर्भङ्गी - वयसा व्यक्तः पोडशवार्षिकः श्रुतेन च व्यक्तो गीतार्थ इति प्रथमो भङ्गः १, वयसाऽव्यक्तः श्रुतेन व्यक्त इति द्वितीयः २ वयसा व्यक्तः श्रुतेनाव्यक्त इति तृतीयः ३, वयः श्रुताभ्यामुभाभ्यामप्यव्यक्त इति चतुर्थः ४ । तत्र द्विधा वयसा श्रुतेन च व्यक्तस्य 'इच्छा' अन्यमाचार्यमुद्दिशति वा न वा, यावन्नोद्दिशति तावद् गुरुम् ' अवसन्नीभूतमाचार्य दूरस्थं साधुसङ्घाटकं प्रेषयित्वा नोदापयति आसन्नं च स्वयमेव नोदयति, एकान्तरितं वा पञ्चदिनान्ते वा पक्षान्ते वा चतुर्मासान्ते वा वर्षान्ते वा यत्र समवसर णादौ मिलन्ति तत्र स्वयमेव नोदय त्यपरैर्वा स्वगच्छीयपरगच्छीयैर्नोदनां कारयतीत्यर्थः । यदि च सर्वथाऽपि नेच्छति तदा स्वयमेव स गणं वर्त्तापयति, 'वा' अथवा प्रतापनार्थमवसन्नाचार्यस्य न तु गणस्य सङ्ग्रहोपग्रहनिमित्तमुद्दिशत्यन्यां दिशमिति शेषः, स च तत्र गत्वा भणति - अहमन्यमाचार्यमुद्दिशामि यदि यूयमितः स्थानान्नोपरता भवत, ततः स चिन्तयेत् - अहो ! अमी मम शिष्या मयि जीवत्यप्यपरमाचार्य प्रतिपद्यन्ते ततो मुञ्चामि पार्श्वस्थताम् । यदि नामैवं गौरवेणापि पार्श्वस्थत्वं मुश्चेत्ततः सुन्दरम् । अथ सर्वथा नेच्छन्त्युपरन्तुं ततः स्वयमेव गच्छाधिपत्ये तिष्ठतीति ॥ ४८ ॥ गतः प्रथमो भङ्गः, द्वितीयमाह
सुअवत्ते वयऽवत्ते, आइरिए गोइए वणिच्छंते । तिग संवच्छरमद्धं, कुल गण संघे दिसावधो ॥ ४९ ॥
'सुअवत्ते'त्ति । श्रुतेन व्यक्ते वयसा पुनरव्यक्ते गच्छं वर्त्तापयितुमसमर्थे अहमप्राप्तवयस्त्वेन त्वदीयं गणं सारयितुं न शक्तोऽतः सारय स्वगणमेनम्, अहं पुनरन्यस्य शिष्यो भविष्यामि, अथवाऽहमेते चान्यमाचार्यमुद्दिशाम इत्येवं नोदितेऽ
Jain Education International
For Private & Personal Use Only:
www.jainelibrary.org