SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्तियुतः तृतीयो ॥ १४३ ॥ 'संकमणं'न्ति । आचार्ययुक्त उपाध्याय आचार्योपाध्यायः, शाकपार्थिववन्मध्यमपदलोपिसमासः, तस्योद्देशनम् - अन्य - स्यात्मीकरणं तदर्थं यत् 'सङ्क्रमणं' गणान्तरगमनं तदपि त्रयाणां - ज्ञानदर्शनचारित्राणामर्थाय । तत्र 'ज्ञाने' ज्ञानार्थमन्याचार्योपाध्यायमुद्देशयितुं गणान्तरगमनं महाकल्पश्रुतेऽध्येतव्ये भवति । केपाश्चिदाचार्याणां कुले गणे वा महाकल्पश्रुतमस्ति, तैश्चेयं गणसंस्थितिः कृता - योऽस्माकं शिष्यतयोपगच्छति तस्यैव महाकल्पश्रुतं देयं नान्यस्य, तत्र चोत्सर्गतो नोपसंपत्तव्यम्, यद्यन्यत्र नास्ति तदा महाकल्पश्रुताध्ययनाय तमप्याचार्यमुद्दिशेत्, उद्दिश्य चाधीते तस्मिन् पूर्वाचार्याणामेवान्तिके गच्छेन्न तत्र तिष्ठेत्, यतः सा खलु तेषामाचार्याणां स्वेच्छा न तु जिनाज्ञा, नहि जिनैरिदं भणितं शिष्यतयोपगतस्य श्रुतं दातव्यमिति । 'दर्शने' दर्शन निमित्तमन्याचार्योपाध्यायोद्देशने च विद्यादयो हेतवः, दर्शनप्रभावकविद्यामन्त्रनिमित्तहेतुशास्त्राध्ययनार्थमन्यमप्याचार्यमुद्देशयितुमन्यगणमुपसंपद्येतेत्यर्थः ॥ ४६ ॥ चरणट्ठा पुवगमो, ओसन्नोहाविए व कालगए । आयरियउवज्झाए, मग्गणया छविहोसन्ने ॥ ४७ ॥ 'चरणदृ'त्ति । चरणार्थमन्याचार्यादेशने 'पूर्वगमः' प्रागुक्त एव गमो भवति । अथवा तत्रैते आदेशा भवन्ति - अवसन्ने 'अवधाविते वा' गृहस्थीभूते कालगते वाऽऽचार्योपाध्यायेऽन्याचार्योपाध्यायोदेशनाय गणान्तरगमनं भवति । तत्रावसन्ने पार्श्वस्थावसन्नकुशीलसंसक्तनित्यवासियथाच्छन्दभेदेन पड़िधे वक्ष्यमाणा मार्गणा भवति ॥ ४७ तामेवाहवित्तस्स दुहा इच्छा, चोआवेइ व गुरुं तु चोएइ । वहावेइ गणं सो, पयावणट्ठा व उद्दिसइ ॥ ४८ ॥ Jain Education nemational For Private & Personal Use Only: गुरुतत्त्वविनिश्चयः ल्लासः ॥ १४३ ॥ inelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy