SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ SAMROSAGARMAHADEOS 'यत्ति । इदं भणितं चरणार्थं योऽसंविग्नः संविग्नमुपसंपद्यते तमधिकृत्य । 'द्वयोः'ज्ञानदर्शनयोरर्थाय योऽसंविग्न उपसंपद्यते तस्य 'स्वच्छन्दः' स्वाभिप्रायो नासौ प्रतीच्छनीय इति; एतत्पदमेवं कल्पभाष्यवृत्ती विवृतं युक्तं चैतत् । 'यत्' यस्मात् 'पञ्जरभन्ने ज्ञानदर्शनार्थमुपसम्पद्यमाने व्यवहारेऽपि यतना भणिता, सा च यतनाकर्तुर्गीतार्थस्येच्छापर्यवसन्नवेति । तत्र पञ्जरो नामाऽऽचार्योपाध्यायप्रवर्तकस्थविरगणावच्छेदकभिक्षुवृषभक्षुलकवृद्धादिसङ्ग्रहः, अथवाऽऽचार्यादीनामन्योन्यं सारणा आचार्यादीनां परस्परं मृदुमधुरभाषया सोपालम्भा वा शिक्षेत्यर्थः, अथवा खरपरुषतर्जनापूर्व प्रायश्चित्तप्रदानेन यदसामाचारीतो निवर्त्तनम् , तदुक्तम्-"पणगाइसंगहो होइ पंजरो जा य सारणाऽण्णोण्णं । पच्छित्तचमढणाहिं, णिवारणं सउणिदिटुंतो ॥ १॥” त्ति । एतदभिमुखाः पञ्जराभिमुखा उच्यन्ते, अस्मात्प्रतिनिवृत्तमतयस्तु पञ्जरभग्ना उच्यन्ते, तेषां यतना चेयम्-"नत्थेयं मे जमिच्छसि, सुअं मया आम संकियं तं तु । न य संकियं तु दिज्जइ, निस्संकसुए गवेस्साहि ॥१॥" यदिच्छसि शास्त्रं श्रोतुं तदेतन्मे मम पार्श्वे नास्ति । अथ ब्रूयान्मयेदं श्रुतं यथाऽमुकं शास्त्रं भवद्भिः श्रुतमिति, तत्राह-आमं तच्छास्त्रं मया श्रुतं केवलमिदानीं शङ्कितं जातंन च शङ्कितं दीयते तस्मान्निःशङ्कश्रुताद्वेषय । नन्वेवं परविप्रतारणचिन्तया विद्यमानमपि श्रुतं नास्ति शङ्कितं वेत्यादिवचनेन च मायामृषावाददोषः, तथा चानार्जवं ततो विशुद्धिर्न स्यात् , “सोही उजुअभूअस्स” इत्यादि पारमर्पप्रामाण्यात् , तदुक्तम्-"तत्थ भवे मायमोसो, एवं तु भवे अणजवं तस्स । सवुत्तं च उजुभूए, सोही तेलुक्कदंसीहिं ॥ १॥" उच्यते-इयं यतना खल्वगीतार्थे क्रियते, गीतार्थे त्वेवम्भूतदोषः सुविहितैर्न | I प्रतीच्छनीय इति स्फुटाक्षरैरपि निवेदनं क्रियते, न चैवं भणितः स रुष्यति गीतार्थत्वात् , गीतार्थो हि सर्वामपि सामा JainEducation international For Private Personel Use Only www.jainelibrary.org.
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy