SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ धिरुपहन्यते न चारोपणा । एवमेकोऽनेके वा विधिना समागता आलोचनादानेन शुद्धाः, यथाकृतादिकमुपधिं वास्तव्ययथाकृतादिना मीलयन्ति, वास्तव्यानां यथाकृताभावे आगन्तुकयथाकृतं वास्तव्याल्पपरिकर्मभिर्मीलयति, माऽसावमीलितः सन्नगीतार्थस्य मदीय उपधिरुत्तमसाम्भोगिकोऽतोऽहमेव सुन्दर इत्येवं गौरवकारणं भवेदिति । गीतार्थो यद्यगौरवी तदा तदीयो यथाकृतः प्रतिग्रहो वास्तव्ययथाकृताभावेऽल्पपरिकर्मभिः सह न मील्यते किन्तूत्तमसाम्भोगिकः क्रियते । यस्तु |गीतार्थोऽपि गौरवं करोति तस्य यथाकृतो वास्तव्याल्पपरिकर्मभिः सह मील्यते, यदि यथाकृतपरिभोगेन परिभुज्यते तदा केनाऽप्यजानताऽल्पपरिकर्मणा समं मेलितं दृष्ट्वा स गीतार्थोऽधिकरणं कुर्यात् , किमर्थ मदीय उत्कृष्टोपधिरशुद्धेन सह मीलित इति, अप्रत्ययो वा शैक्षाणां भवेदू-अयमेतेषां सकाशादुद्यतविहारी येनोपधिमुत्कृष्टपरिभोगेन परिभुड़े, एते हीनतरा इति । 'द्वितीये' संविग्नेऽसंविग्नगच्छं सङ्क्रामति बहवो दोषा यद्भणितं कल्पभाष्ये ॥ ३८॥ सीहगुहं वग्धगुहं, उदहिं च पलित्तगं च जो पविसे। असिवं ओमोयरिअं, धुवं से अप्पा परिच्चत्तो॥३९॥ | ‘सीहगुहंति । सिंहगुहां व्याघ्रगुहां 'उदधि' समुद्रं प्रदीप्तं वा नगरादिकं यः प्रविशति अशिवमवमौदर्य वा यत्र देशे * तत्र यः प्रविशति तेन ध्रुवमात्मा परित्यक्तः ॥ ३९॥ चरणकरणप्पहीणे, पासत्थे जो उ पविसए समणो।जयमाणए अजहिउं, सो ठाणे परिचयइ तिणि४०| 'चरणकरणत्ति । एवं सिंहगुहादिस्थानीयेषु चरणकरणप्रहीणेषु पार्श्वस्थेषु यः श्रमणः 'यतमानान्' संविग्नान् ‘प्रहाय' JainEducation international For Private & Personal use only
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy