________________
***
ROGAS *
'पंचण्डं ति। 'पञ्चानाम्' आचार्योपाध्यायप्रवर्तकस्थविरगणावच्छेदकानामेकतरः संयतीनयति । तत्र च सचित्तादिक परक्षेत्रावग्रहवर्ज स एव लभते । निर्ग्रन्थी च ज्ञानार्थं व्रजन्ती अष्टौ पक्षानापृच्छति, अत्राचार्यमेकं पक्षमापृच्छति, यदि न विसर्जयति तत उपाध्यायं वृषभं गच्छं चैवमेव पृच्छति; संयतीवर्गेऽपि प्रवर्तिनीगणावच्छेदिकाभिषेकाशेषसाध्वीयथाक्रममेकै पक्षमापृच्छति । ताश्च स्त्रीसार्थेन समं संविग्नेन परिणतवयसा साधुना नेतव्याः॥ ३६॥ एवं तावत्केवलोपसम्पदर्थं गणान्तरसङ्क्रमणमुक्तम् । अथ संभोगार्थं तदुच्यते
संभोगपच्चयं पि हु, संकमणं होइ कारणतिएणं। सुत्तत्थदाणकिरिया, सीअणओ इत्थ चउभंगो॥३७॥ RI 'संभोगपञ्चयं पि हुत्ति । सम्भोगः-एकमण्डल्यां समुद्देशनादिरूपस्तत्प्रत्ययमपि-तन्निमित्तमपि 'सङ्क्रमणं' गणान्तरग-
मनं 'कारणत्रयेण' ज्ञानदर्शनचारित्रलक्षणेन भवति, तत्र ज्ञानार्थ दर्शनार्थं वा यस्योपसम्पदं प्रतिपन्नस्तस्मिन् सूत्रार्थदानादौ सीदति गणान्तरसङ्क्रमणं भवति, विधिश्च तत्र पूर्वोक्त एव । चारित्रार्थं तु यस्योपसम्पदं गृहीतवांस्तस्य चरणकर
णक्रियायां सीदन्त्याम् , अत्र च चतुर्भङ्गी भवति-गच्छः सीदति नाचार्यः १, आचार्यः सीदति न गच्छः २, गच्छोडदाप्याचार्योऽपि सीदति ३, न गच्छो नाप्याचार्यः ४ इति । अत्र प्रथमभङ्गे गच्छे सीदति गुरुणा स्वयं वा नोदना कर्त्तव्या,
कथं गच्छः सीदेत् ? इति चेदुच्यते-साधवः प्रत्युपेक्षणां काले न कुर्वन्ति, न्यूनातिरिक्तादिदोषैर्वा विपर्यासेन प्रत्युपेक्षन्ते, गुरुग्लानादीनां वा न प्रत्युपेक्षन्ते, निष्कारणं दिवा त्वग् वर्त्तयन्ति, दण्डकं निक्षिपन्त आददतो वा न प्रत्युपेक्षन्ते, न वा प्रमार्जयन्ति, दुष्प्रेक्षितं वा कुर्वन्ति, यथार्ह विनयं न प्रयुञ्जते, शय्यातरपिण्डं भुञ्जते, उद्गमाद्यशुद्धं गृह्णन्ति, एवमा
संभोगार्थमुपसंपत तद्विधिश्च
*
*
Jain Education International
For Private & Personal use only
www.jainelibrary.org