________________
स्वोपज्ञवृत्तियुतः तृतीयो -
॥ १३७ ॥
प्रीत्याऽऽचार्यादिपदाध्यारोपितं कुर्यादिति । सापेक्षः खल्वाचार्यो जीवन्नेवाचार्य स्थापयति, यथा कालगतेऽपि तत्र गच्छो न सीदति; गणधरपदप्रायोग्याभावे प्रमादतो वाऽस्थापित एवाचार्ये कालगते इत्वर आचार्य उपाध्यायो वा स्थाप्यते, गच्छवृहत्तराणां च प्रकाश्यते — यावत्तत्र मूलाचार्यपदे मूलोपाध्यायपदे वाऽन्यो न स्थापितो भवति तावदेष युष्माकमाचार्य उपाध्यायो वा प्रवर्त्तक इति, तदुक्तम् - " गणधर पाङग्गासइ, पमायअट्ठाविए व कालगए । थेराण पगासंती, जावऽन्नो न ठाविओ गच्छे ॥ १ ॥ "त्ति । तस्य च द्विविधस्याप्येकपाक्षिकस्य दिग्बन्धः कर्त्तव्यः । तत्र प्रव्रज्याश्रुताभ्यां चत्वारो भङ्गा भवन्ति, एवं कुलस्य गणस्य सङ्घस्य च श्रुतेन सार्द्धं भङ्गा द्रष्टव्याः । तत्र प्रव्रज्यां कुलं गणं सङ्घ वाऽधिकृत्य प्रथमभङ्गवर्त्ती इत्वरो यावत्कथिको वा स्थापनीयः, तदभावे तृतीयभङ्गवतीं । यदि पुनर्द्वितीयभङ्गवर्त्तिनं चतुर्थभङ्गवर्त्तिनं वा स्थापयति तदा स्थापयितुश्चत्वारो गुरुकाः आज्ञाभङ्गानवस्थामिथ्यात्वानि, विराधना च गणभेदरूपा भवति । तथाहि श्रुतानेकपाक्षिकेत्वराचार्यस्थाने मोहरोगान्यतर चिकित्सां प्रदीर्घकालं कृत्वा समागतेन शङ्कितसूत्रार्थः पृष्टः, तस्य भिन्नवाचनाकत्वा| देव न लभ्यते, अभिनवग्रहणमपि गच्छसाधूनामत एव न भवतीति गच्छान्तरोपसम्पत्तौ प्रश्नहेतोर्गणभेदः स्यात् । यावत्कथिकस्यापि तादृशस्य स्थापनेऽयमेव दोषो भावनीयः । अथवा श्रुतानेकपाक्षिकोऽल्पश्रुतोऽप्युच्यते स च पृष्टः सन्न तमालापकं ददातीति गणान्तरे गत्वा पृच्छायां गच्छान्तरवर्त्तिन आचार्यास्तेनोत्पादितं सचित्तादिकं गृह्णन्ति, अगीतार्थानां न किञ्चिदाभाव्यमिति वचनात् । प्रव्रज्याऽनेकपक्षस्य च द्विविधस्यापि स्थापने गच्छसाधूनां तस्य च मिथो वहिर्भावव्यव| साये बहुकालेनापि परकीयत्वानिवृत्त्यध्यवसायात्कलहो गच्छभेदश्च भवति । अन्यतरचिकित्सादिकारणे च तृतीयभङ्गव
For Private & Personal Use Only
Jain Education International
गुरुतत्त्वविनिश्वयः
लासः
॥ १३७ ॥
www.ainelibrary.org