SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ MAMACHAR क्रमेणोपसम्पत् ? इत्यत आह-ममत्व-कालानुभावेनात्मीयोऽयमिति परिग्रहलक्षणं गुरुभावः बहुमानबुद्धिः लज्जा च४ास्वीयकृत्याकरणे हीनतापत्तिलक्षणा तद्गुणात्-तत्कृतावश्योपकर्त्तव्यत्वाद्यनुग्रहात् ॥ २८ ॥ तदेव सविशेषमाह सवस्स वि कायवं, णिच्छयओ किं कुलं व अकुलं वा । संबंधो गुणहेऊ, तह वि हु थिरपीइहेउ त्ति॥२९॥ MI 'सबस्स वित्ति । निश्चयतः सर्वेण सर्वस्याप्यविशेषेण श्रुतवाचनादिकमात्मनो विपुलतरां निर्जरामभिलपता कर्त्तव्यं किं| कुलं वाऽकुल वा? इत्यादिविचारणया, तथापि ‘सम्बन्धः' कुलाद्यासन्नतरतादिलक्षणः 'स्थिरप्रीतिहेतुरिति’ पारतन्त्र्यधीनि-2 रासद्वाराऽऽलस्यनिवारकत्वेन निरन्तरावश्यकर्त्तव्यक्रियाऽविच्छेदाद्गुणहेतुरिति ॥ २९ ॥ एतदेव तन्त्रसंमत्या द्रढयतिदिसमणुदिसं व भिक्खू , इत्तु च्चिय एगपक्खिओ जुग्गो। धारेउं णिहिट्ठो, इत्तरिआवकहियं वा॥३०॥ __'दिसमणुदिसं वत्ति । 'इत एव सम्बन्धस्य स्थिरप्रीतिहेतुतया गुणहेतुत्वादेव एकः पक्षः प्रव्रज्यया श्रुतेन चास्यास्ती-18 कत्येकपाक्षिको भिक्षुः 'दिशम् आचार्यत्वलक्षणाम् 'अनुदिशं च' उपाध्यायत्वलक्षणाम् 'इत्वरां' कियत्कालभाविनी 'यावत्क थिकी च' यावत्कालभाविनी धारयितुं योग्यो निर्दिष्टः, यदुक्तं व्यवहारे द्वितीयोद्देशके-“एगपक्खिअस्स भिक्खुस्स कप्पति इत्तरिअं दिसं वा अणुदिसं वा उद्दिसित्तए वा धारित्तए वा, जहा वा तस्स गणस्स पत्तिअं सिय"त्ति, अस्यार्थःएकपाक्षिकस्य भिक्षोः कल्पते 'इत्वरां' कियत्कालभाविनीमुपलक्षणाद् यावत्कथिकीच दिशमनुदिशं वोद्देष्टुं वा धारयितुं वा, यथा वा तस्य गणस्य प्रीतिकं स्यात् तथा दिशमनुदिशं वोदिशेत् , किमुक्तं भवति?-भिन्नपाक्षिकमप्यपवादपदेन स्वगण Jain Education International For Private Personal Use Only
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy