SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्तियुतः तृतीयो - ॥ १३५ ॥ Jain Educat र्यस्याभवतीत्येको विभागः १ । अथ पश्चादुद्दिष्टं पठति प्रतीच्छकस्ततः प्रथमसंवत्सरे यत्स चित्तादिकं लभते तत्प्रवाचयत आचार्यस्याभवतीति द्वितीयो विभागः २ । पूर्वोद्दिष्टं पश्चादुद्दिष्टं वा पठतः प्रतीच्छकस्य द्वितीये वर्षे सचित्तादिकं सर्वमपि प्रवाचयत आभवतीत्येष तृतीयो विभागः ३ । शिष्यस्य कालगताचार्येण प्रतीच्छकाचार्येण वा यदुद्दिष्टं भवेत्तदसौ पठन् यत्सचित्तादिकं लभते तत्सर्वं प्रथमे संवत्सरे कालगताचार्यस्याभवतीत्येष चतुर्थी विभागः ४ । शिष्यस्य पूर्वोद्दिष्टमधीयानस्य द्वितीये वर्षे सचित्तादिकं कालगताचार्यस्याभवतीति पञ्चमी विभागः ५ । पश्चादुद्दिष्टं पठतः शिष्यस्य द्वितीये वर्षे सचित्तादिकं प्रवाचयत आभवतीति षष्ठो विभागः ६ । पूर्वोद्दिष्टं पश्चादुद्दिष्टं वा पठति शिष्ये शिष्यादिकं तृतीये वर्षे सर्वमपि प्रवाचयत आभाव्यं भवतीति सप्तमो विभागः ७ । पूर्वोद्दिष्टं पठन्त्या शिष्यिकया प्रथमवर्षे लब्धं सचित्तादिकं कालगताचार्यस्याभवतीत्यष्टमो विभागः ८ । पश्चादुद्दिष्टमधीयानायां प्रथमवर्ष एव प्रवाचयत आभवतीति नवमो विभागः ९ । पूर्वोदिष्टं पश्चादुद्दिष्टं वा पठन्त्यां शिष्यिकायां सचित्तादिलाभो द्वितीये वर्षे प्रवाचयत आभवतीति दशमो विभागः १० । पूर्वोद्दिष्टं पश्चादुद्दिष्टं वा पठन्त्यां प्रतीच्छिकायां प्रथम एव संवत्सरे सर्वमपि प्रवाचयत आभवतीत्येकादशो विभागः १९ । इत्ययमेक आदेशः । द्वितीयः पुनरयम् - स खलु प्रतीच्छकाचार्यो गच्छसाधूनां कुलसत्को गणसत्कः सङ्घसत्को वा भवेत् । तत्र यदि कुलसत्कस्तदा त्रीन् संवत्सरान् शिष्याणां वाच्यमानानां सचित्तादिकं न गृह्णाति, ये 'पुनः प्रतीच्छकास्तेषां वाच्यमानानां यस्मिन्नेव दिने आचार्यः कालगतस्तदिवसमेव गृह्णाति । यदि च नायमेककुलसत्कः किन्तु गणसत्कस्ततः संवत्सरं शिष्याणां नापहरति सचित्तादिकम् । यस्तु कुलसत्को गणसत्को वा न भवति स नियमात्सङ्घसत्कः, स च षण्मा For Private & Personal Use Only national गुरुतत्त्वविनिश्चयः ल्लासः ॥ १३५ ॥ elibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy