________________
अपडिच्छणम्मि लहुआ, , विहिणा समुवागयस्स एएणं । एगाइकारणागयपडिच्छणे हुंति चउगुरुआ ॥२३॥ ८
‘अपडिच्छणम्मि’त्ति । एतेन विधिना समुपागतस्य प्रतीच्छकस्याप्रतीच्छने लघुकाश्चत्वारः प्रायश्चित्तम् । एकादिकारणागतस्य प्रतीच्छनेऽपि चत्वारो गुरुकाः, तानि चेमानि – एकाकिनमाचार्य मुक्त्वा स समागतः, अथवा तस्याचार्यस्य पार्श्वे ये तिष्ठन्ति तेऽपरिणताः - आहारवस्त्रपात्रशय्यास्थण्डिलानामकल्पिका इत्यर्थः, तं मुक्त्वा स समागतः, अथवा स आचार्योऽल्पाधारस्तमेव दृष्ट्वा सूत्रार्थवाचनां ददाति, स्थविरो वा स आचार्यस्तद्गच्छे वा सर्वे साधवः स्थविरास्तस्य स एव वैयावृत्यकर्त्ता, ग्लानो वा बहुरोगी वा स आचार्यः, ग्लानो नामाधुनोत्पन्नरोगः, बहुरोगी नाम चिरकालं बहुभिर्वा रोगैरभिभूतः, अथवा शिष्यास्तस्याचार्यस्य मन्दधर्माणो न गणसामाचारीं पालयन्ति, तादृशमाचार्य मुक्त्वाऽऽगतः, गुरुणा समं प्राभृतं कृत्वा वा समागत इति एतादृशमाचार्य व्युत्सृज्य हि गमनं कर्त्तुं न कल्पते । यदि च गच्छति तदैकं ग्लानं वा मुक्त्वा शिष्यस्य प्रतीच्छकस्य वा समागतस्य चतुर्गुरुकाः । य आचार्यः प्रतीच्छति तस्यापि चतुर्गुरु, प्राभृते शिष्यप्रतीच्छकयोचतुर्गुरुकमेव, आचार्यस्य पञ्चरात्रिन्दिवच्छेदः । शेषेष्वपरिणतादिषु पदेषु शिष्यस्य चतुर्गुरु, प्रतीच्छकस्य चतुर्लघु-आचायस्यापि शिष्यं प्रतीच्छतः । एतेषु चतुर्गुरु प्रतीच्छकं प्रति, प्रतीच्छतश्च चतुर्लघुकमिति विशेषः ॥ २२ ॥ अथ ज्ञानार्थं त्रीन् पक्षानापृच्छा कर्त्तव्येत्यत्रापवादमाह
वितियपदेऽसंविग्गे, आगाढे कारणे य संविग्गे । गमणमणापुच्छाए, कप्पइ गाउं सहावं च ॥ २३ ॥
Jain Education International
For Private & Personal Use Only)
ज्ञानार्थं ग
च्छता मप
वादतो
विधिः
www.jainelibrary.org