________________
न्यतरस्य यथारुच्युपसम्पदं ग्रहीष्यामीति, स चान्तरा ग्लानो जातस्ततो ब्रजति ग्लाने सत्यस्मानभिधार्यागच्छन् साधुः पथि ग्लानो जात इति श्रुतवतां तद्गवेषणाय द्विच्या (त्रा)दीनामभिधारिताचार्याणां समागतानां साधारणं तल्लब्धं सचित्तादि भवति । यदि चैक एवागतस्ततोऽनागतस्य चतुर्गुरु न च किञ्चिदसौ लभते, यस्तं गवेषयितुमागतस्तस्य सर्वमाभवति, कालगतेऽपि तत्र गवेषयितुमागतस्यैवाभवति नेतरेषाम् । अथासौ विपरिणतस्ततो यस्य विपरिणतः स न लभते, यत्पुनः सचित्तादिकमभिधारणभावे लब्धं पश्चाद्विपरिणतस्तदविपरिणते भावे लब्धमभिधार्यों लभते न तु विपरिणत इति दृश्यम् ॥१७॥ खित्तम्मि खित्तिअस्सा, वाहिं पुण परिणओ पुरिल्लस्स।आसज्ज विपरिणाम, कहणेऽणेगाओ मग्गणया ॥
'खित्तम्मित्ति । पथि गच्छतः सहायो मिलितो मिथ्यादृष्टिर्यदि क्षेत्रे' साधुपरिगृहीतक्षेत्रे ‘परिणतः' प्रव्रज्याऽभिमुखीभूत-12 स्तदा क्षेत्रिकस्याभवति । क्षेत्राद्वहिः परिणतस्तु 'पुरिल्लस्स' तस्यैव साधोराभवति । विपरिणाममासाद्य कथने त्वनेका मार्गणा
भवन्ति । यदि धर्मकथी ऋजुतया कथयति तदा क्षेत्रे परिणतः क्षेत्रिकस्य, अक्षेत्रे परिणतस्तु धर्मकथकस्याभवति । ४ अथ विपरिणते भावे रागेण न कथयति यदा क्षेत्रान्निर्गतो भविष्यति तदा कथयिष्यामि यतो मे आभवतीत्येवं क्षेत्रनिर्ग
तस्य कथनेऽपि परिणतस्य क्षेत्रिकस्यैवाभाव्यत्वमिति विभाषा कर्त्तव्येत्यर्थः ॥ १८ ॥ वीसजिअम्मि एवं, लहुअं अविसज्जिए अआणाई। अवि य पडिच्छंताणं,लहुआ चउरो इमोअविही १९/ 'वीसजिअम्मित्ति। एवमेष विधिर्गुरुणा विसर्जिते शिष्ये मन्तव्यः। 'अविसर्जिते' द्वितीयवारमनापृच्छय गच्छति मास
गुरुत. २३
Jain Education
For Private Personal Use Only