SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृतियुतः तृतीयो ॥ १३२ ॥ आत्यन्तिका अनात्यन्तिकाश्च । आत्यन्तिका नाम ये तेन सार्द्धं तत्रैवासितुकामाः ये तु तं मुक्त्वा प्रतिनिवर्त्तिष्यन्ते तेनात्यन्तिकाः । तत्रानात्यन्तिकसहायलब्धिजनितो लाभः 'मग्गिल्ले'त्ति यस्य सकाशात् प्रस्थितस्तस्मिन्नात्मीयाचार्ये व्रजति । व्यक्तस्य स्वलब्ध्युत्पादितो लाभश्च 'पुरिमे' यस्याचार्यस्याभिमुखं व्रजति तस्मिन् पुरोवर्त्तिन्यभिधारिते आचार्ये ॥ १५ ॥ खेत्तविवज्जिअमचं तिएसु लद्धं च गच्छइ पुरिले । मग्गिलेऽणचंतिय सहिओ जा णऽपिओऽवत्तो ॥ १६ ॥ 'खेत्तविवज्जिअ मिति । आत्यन्तिकेषु सहायेषु सत्सु लब्धं च तेन सचित्तादिकं 'पुरिल्ले' अभिधारिताचायें गच्छति, किम्भूतम् ? ' क्षेत्रविवर्जितम्' परक्षेत्रलाभरहितम्, परक्षेत्रे लब्धं तु क्षेत्रिकस्यैवाभवतीत्यर्थः । अव्यक्तस्य तु नियमेनैव सहाया दीयन्ते, ते च यस्यानात्यन्तिकास्तं तत्र नीत्वा निवर्त्तन्त इति यावत्तत्सहितोऽव्यक्तो यावन्नार्पितो भवति तावत्तेन तैश्च लब्धं 'मग्गिले' आत्मीयाचार्ये गच्छति । परक्षेत्रलाभस्तु क्षेत्रिकस्यैव । यस्य चात्यन्तिकाः सहायास्तैस्तेन च लब्धमभिधारितस्यैवाभाव्यमिति ॥ १६ ॥ एगोऽणुग्गहखित्ते, लभइ सचित्तं तयं तु पुरिमस्स । वच्चंतम्मि गिलाणे, साहारणमागयाण भवे ॥१७॥ 'गो'ति । द्वितीयपदे खल्वपूर्यमाणेषु साधुषु श्रुतेन वयसा च व्यक्तस्य सहायान्न दद्यादप्याचार्यः, तस्य व्रजिकादावप्रतिबध्यमानस्योपधिर्नोपहन्यते, अन्यथा तूपहन्यते स चैको व्रजन्ननवग्रहेऽन्याचार्यावग्रहरहिते क्षेत्रे यत् सचित्तं लभते तत् 'पुरिमस्य' अभिधारिताचार्यस्याभवति । योऽसौ ज्ञानार्थं व्रजति स द्वौ त्रीन् वाऽऽचार्यान् कदाचिदभिधारयेदेतेषाम For Private & Personal Use Only Jain Education International गुरुतत्त्वविनिश्वयः ल्लासः ॥ १३२ ॥ nelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy