SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ पूर्वगतं काला दिग्बन्धं धमाणो ग ASSOCIAL |स्वयमलभमानो न प्रेषयेदपि । अथवा यावदुपयुज्यते तावद्गृहीत्वा शेषं तेषां समर्पयेत् , यश्च तेन शैक्ष आनीतः४ स परममेधावी तस्य च गच्छे नास्ति कोऽप्याचार्यपदयोग्यः, यच्च तस्य पूर्वगतं कालिकश्रुतं वा समस्ति तस्यापरो ग्रहीता| नास्तीति तयोर्व्यवच्छेदं च ज्ञात्वा स्वयमेव तस्यात्मीयं दिग्बन्धं कुर्यात् न तु प्रागभिधारितानां पायें प्रेषयेत् । तथाऽऽचार्यो ४ायः स्वयमेकाकी शिष्या वा मन्दधर्माणो गुरुव्यापारं न वहन्ति तदा संविग्नमसंविग्न वा यं कञ्चन सहायं गृह्णन् पर्षद्वत्त्व मपि कुर्वाणो न दोषभाक् । श्राद्धा वा मन्दधर्माणो न वस्त्रपात्रादि प्रयच्छन्ति ततो लब्धिसम्पन्नं शिष्यं यं वा तं वा परिगृहन्न दोषभाक् । दुर्भिक्षादिकं वा कालं दीर्घमध्वानं वा प्राप्य यांस्तानुपग्रहकारिणः शिष्यान् परिगृह्णन्नदुष्टः । एवं पर्षद्वत्त्वं कुर्वन् प्रतीच्छकस्य सचित्तादिकमभिधारितान्तिके प्रेषयेत् , पूर्वोक्तकारणे वा सञ्जाते स्वयमपि गृह्णीयात् । प्रतीच्छकोऽपि | यमाचार्यमभिधार्य व्रजति तं कालगतं श्रुत्वा यद्वा यत्र गन्तुकामस्तत्रान्तराऽशिवादीनि श्रुत्वा प्रतिषेधकस्य पर्षद्वतोऽन्यस्य वा पार्थे प्रविशन् शुद्ध इति ॥ १४ ॥ अत्राभाव्यानाभाव्यविशेष विभणिषुराहदुविहो सो उ वियत्तो, अवियत्तो चेव होइ वच्चंतो। मग्गिल्लेऽणचंतियलाभो वत्तस्स पुरिमम्मि ॥१५॥ 'दुविहोत्ति । स च व्रजन प्रतीच्छको द्विविधो व्यक्तोऽव्यक्तश्च । तत्राव्यक्तो द्विधा-श्रुतेन वयसा च, श्रुतेनागीतार्थः, वयसा षोडशवर्षाणामाग् वर्तमानः, तद्विपरीतो व्यक्तः । अत्र व्यक्ताव्यक्ताभ्यां चतुर्भङ्गी भवति-श्रुतेनाप्यव्यक्तो वयसाऽप्यव्यक्तः १, श्रुतेनाव्यक्तो वयसा व्यक्तः २, श्रुतेन व्यक्तो वयसाऽव्यक्तः ३, श्रुतेन व्यक्तो वयसाऽपि व्यक्तः ४ इति। अत्र चाचार्यैः पूर्यमाणेषु साधुषु व्यक्तस्यापि सहाया दातव्याः किं पुनरितरस्य ?इति स्थितिः। ते च द्विविधा भवन्ति 3545525A4%2555 For Private Personal Use Only
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy