________________
यश्चित्तम्
तस्य पार्श्वे तिष्ठति ७ । 'पेसविए'त्ति, अहमाचार्यः श्रुताध्ययननिमित्तं युष्मदन्तिके प्रेषित इत्यभिधारितसमीपे ब्रवीति ८113 एतेऽष्टावतिचाराः। यस्तु वदति 'आचार्यैर्विसर्जितोऽहं युष्मदन्तिके समायातः' इति स शुद्धो न प्रायश्चित्तभागित्यर्थः ॥७॥ भयादिषु पदेषु प्रायश्चित्तमाहपंणगंच भिन्नेमासो, मासो लहुँओ अहुंति, चउँगुरुआ। मासेलहुं चउँलहुआ चउँलहु लहुओअ एएसुंद
ज्ञानोपसंप.
दतिचारप्रा'पणगं च'त्ति । आचार्याचरणां कर्कशां श्रुत्वा ज्ञात्वा वा भयेन यः प्रतिनिवर्त्तते तस्य पञ्चकं भवति प्रायश्चित्तम् १ ।। पूर्वमेव यावन्न निर्गम्यते तावञ्चिन्तयितव्यम् , यस्तु निर्गतश्चिन्तयति किं करोमि ब्रजामि निवर्ते वा?, यद्वा तत्र वाऽन्यत्र वा गच्छे गच्छामीति तस्य भिन्नमासः २ । बजिकां श्रुत्वा मार्गादुद्वर्त्तनं यः करोति अप्राप्तां वा वेलां प्रतीक्षते तस्य लघुको मासः, तथा यदि प्रचुरं भुङ्क्ते तदा चतुर्लघु, प्रचुर भुक्त्वाऽजीर्णभयेन प्रकामं स्वपिति (तस्य ) लघुमास इत्यपि द्रष्टव्यम् | ३ । सङ्घड्यामप्राप्तकालप्रतीक्षणप्रभूतग्रहणयोश्चतुगुरुकाः, यच्च तत्र हस्तसङ्कट्टनपात्रसङ्घट्टनादिनिमित्तकं तन्निष्पन्नमपि प्रायश्चित्तमित्यपि द्रष्टव्यम् ४ । पिशुकादिभयान्निवर्तमानस्य मासलघु ५। अप्रतिषेधकस्य पार्श्वे तिष्ठतश्चत्वारो लघुकाः। यश्चासावध्ययनार्थी मा मामतिक्रम्यान्यत्र गमदिति कृत्वा तस्याकर्षणार्थ शिष्यान् प्रतीच्छकांश्च व्यापारयति, यत्र पथि । ग्रामे स भिक्षां करिष्यति मध्येन वा समेष्यति यस्यां वा वसतौ स्थास्यति तेषु स्थानेषु गत्वा यूयमभिलापशुद्धं परिवर्तयन्तस्तिष्ठत, यदा स आगतो भवति तदा यद्यसौ पृच्छेत् केन कारणेन यूयमिहागताः, ततो भवद्भिर्वक्तव्यम्-अस्माकं वाचनाचार्या अभिलापशुद्धं पाठयन्ति, यद्यमिलापः कथञ्चिदन्यथा क्रियते ततो महदप्रीतिकं ते कुर्वन्ति भणन्ति च-अत्रोपाश्रये |
For Private & Personal Use Only