________________
स्वोपज्ञवृत्तियुतः तृतीयो
॥ १२९ ॥
'नाणे'त्ति । ज्ञानार्थं दर्शनार्थं चारित्रार्थं चापृच्छय स्वगुरुं गणान्तरे गमनं विहितम्, 'इतरथा' निष्कारणं गुरुमनापृच्छय वा गणान्तरगमने दोषः यतो निष्कारणं गणान्तरोपसम्पत्तौ चतुर्गुरुकमाज्ञादयश्च दोषाः, गुरुमनापृच्छय गमने च चतुर्गुरुकं प्रायश्चित्तमुपदिश्यते । तत्र ज्ञानार्थं तावदेतत् तदा भवति यदा स्वगुरोः सकाशे यावत् श्रुतमस्ति तावदधीतम्, अस्ति च तस्यापरस्यापि श्रुतस्य ग्रहणे शक्तिस्ततोऽधिक श्रुतग्रहणार्थमाचार्यमापृच्छति (ते) आचार्येणापि स विसर्जयितव्य इति । तत्र ज्ञानार्थं गच्छत इमेऽतिचारा भवन्ति ॥ ६ ॥
१ चिंतण २ गाइ ३, संखडि ४ पिसुगाइ ५ अपडिसेहे अ ६ । परिसिले ७ पेसविए ८, आयरिअविसज्जिओ सुद्धो ॥ ७ ॥
'भय'त्ति । येषां समीपे गन्तव्यं तेषां साध्वादिमुखात् कर्कशचर्यां श्रुत्वा भीतः प्रतिनिवर्तते १ । चिन्तयति किं तत्र गन्तव्यं न वा ? २ । ब्रजिकादिषु प्रतिबन्धं करोति, आदिशब्दाद्दानश्राद्धादिषु दीर्घा गोचरचर्यां करोति, अप्राप्तं वा देशकालं प्रतीक्षते ३ । 'संखडित्ति सङ्घड्यां प्रतिबध्यते ४ । 'पिसुगाइ ति पिशुकमत्कुणादिभयान्निवर्त्ततेऽन्यत्र वा गच्छे गच्छति ५ । 'अपडसे हे अत्ति, कश्चिदाचार्यस्तं परममेधाविनमन्यत्र गच्छन्तं श्रुत्वा परिस्फुटवचसा न तं प्रतिषेधयति किन्तु शिष्यान् व्यापारयति, 'तस्मिन्नागते व्यञ्जनघोषशुद्धं पठनीयं येनात्रैवैष तिष्ठति' इति, एवमप्रतिषेधयन्नपि प्रतिषेधको लभ्यते, तेनैवं विपरिणामितस्तदीये गच्छे प्रविशति ६ । 'परिसिले त्ति पर्षद्वान् यः संविग्नाया असंविग्नायाश्च पर्पदः सङ्ग्रहं करोति
Jain Education International
For Private & Personal Use Only:
गुरुतत्त्वविनिश्चयः
लास :
ज्ञानार्थोपसंपत्तावति
चाराः
।। १२९ ।।
Dainelibrary.org