SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ 'जीहाए'त्ति । यत्र नाम संयमयोगेषु सीदतां सारणा नास्ति स आचार्यः 'जिह्वया विलिहन्' मधुरवचोमिरानन्दयन् उपलक्षणमेतद् वस्त्रपात्रादिकं च पूरयन् 'न भद्रकः' न समीचीनः, परलोकापायेषु पातनात् । यत्र पुनः सीदतां साधूनां सम्यक् 'सारणा' संयमयोगेषु प्रवर्त्तना समस्ति 'सः' आचार्यों दण्डेनापि ताडयन् 'भद्रकः' एकान्तसमीचीनः, सकलसां| सारिकापायेभ्यः परित्राणकरणात् ॥ ३ ॥ अथ सारणामकुर्वाणो जिह्वया विलिहन् कस्मान्न समीचीनः? इत्यत्राह जह सरणमुवगयाणं, जीविअववरोवणं नरो कुणइ । एवं सारणिआणं, आयरिओऽसारओ गच्छे ॥४॥ हा 'जह'त्ति । यथा कोऽपि नर एकान्तेनाहितकारी शरणमुपगतानां जीवितव्यपरोपणं करोति, एवं साधूनामपि शरण-12 दामुपागतानां 'सारणीयानां' संयमयोगेषु प्रमादच्यावनेन प्रवर्त्तनीयानामाचार्योऽसारको गच्छे भावनीयः, सोऽपि शरणोप-18 गतशिरःकर्त्तक इवैकान्तेनाहितकारीति भावः॥४॥ इत्तो उवसंपज्जइ, विहिणा गच्छंतरं पि धम्मट्ठी। इय भणिअंजिणसमए, परिवाडि इत्थ वुच्छामि ॥५॥ ST 'इत्तो'त्ति । यतः सारणादिकार्ये च गुरुराश्रयणीयो नान्यः, अत एव धर्मार्थी स्वगच्छे सारणाद्यभावे गच्छान्तरमपि3 सारणादिसाम्राज्यकलितं विधिनोपसम्पद्यत इति 'जिनसमये' कल्पादिलक्षणे भणितम् । 'अत्र' गच्छान्तरोपसम्पत्तौ परिपाटीं प्रसङ्गप्राप्तामखिलां यथासूत्रं वक्ष्यामि ॥ ५॥ यथाप्रतिज्ञातमेवाह उपसम्पद्गहनाणे दंसण चरणे, आपुच्छित्ता गणंतरे गमणं । विहिअं इहरा दोसो, णाणइआरा इमे तत्थ ॥ ६॥ णकारणानि For Private Personal use only wanaw.jainelorary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy