SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ जो जह सत्तो बहुतरगुणो व तस्साहिअं पि दिजाहि । हीणस्स हीणतरगं, झोसिज्ज व सबहीणस्स ॥ ३१ ॥ 'जो जह सत्तो' त्ति । तेषां पुरुषाणां गीतार्थादीनां कल्पस्थितादीनां च मध्याद् यो 'यथा शक्तः तपः कर्त्तुं क्षमः 'बहुतरगुणो वा' धृतिसंहननसंपन्नः परिणतः कृतयोगी आत्मपरतरो वा भवेत्तस्य' अधिकमपि' जीतोक्तादतिरिक्तमपि दद्यात् । 'हीनस्य' धृतिसंहननादिरहितस्य 'हीनतरं' जीतोत्तादल्पतरं दद्यात् । 'सर्वहीनस्य' सामस्त्येनाक्षमस्य सर्वमपि तपः 'क्षपयेत्' हासयेत् न किमपि तस्य दद्यात् मिथ्यादुष्कृतेनैव तस्य शुद्धिरादेश्येत्यर्थः ॥ ३१ ॥ प्रतिसेवावैचित्र्ये प्रायश्चित्तवैचित्र्यमाहपडिसेवाभेएण वि, पच्छित्तं खलु विचित्तयं होइ । जं जीअदाणसुत्तं, एयं पायं पमाएणं ॥ ३२ ॥ 'पडि सेव' त्ति । प्रतिसेवा भेदेनापि खलु विचित्रं प्रायश्चित्तं भवति । तत्र यज्जीतदानसूत्रमेतत्प्रायः प्रमादेन, प्रमादो दैवात् प्रतिलेखनाप्रमार्जनाद्यनुपयुक्तता, तत्र जीतोक्तं यथास्थितमेव प्रायश्चित्तमित्यर्थः ॥ ३२ ॥ ठाणंतरस्स वुड्डी, दप्पे आउडिआइ वि तहे व । सद्वाणं वा कप्पे, पडिकमणं वा तदुभयं वा ॥ ३३ ॥ 'ठाणंतरस्त' त्ति । 'दर्पे' धावनडेपनवल्गनादिरूपे हास्यजनकवचनकन्दर्पादिरूपे वा स्थानान्तरस्य वृद्धिः कर्त्तव्या, दर्पवतः प्रमादप्रतिसेवकप्रायश्चित्तस्थानान्तरं वर्द्धयेत्, किमुक्तं भवति ? प्रमादप्रतिसेवनया भिन्नमासलघुमासगुरुमासचतुर्लघुचतुर्गुरुषलघुषगुरूणामापत्तौ निर्विकृतिकपुरिमा काशनाचामाम्लचतुर्थषष्ठाष्टमानि तपांसि दीयन्ते । दर्पप्रति| सेवाकारिणस्तु भिन्नमासादीनामापत्तौ निर्विकृतिकं मुक्त्वा पुरिमार्द्धादीनि दशमान्तानि देयानीति । 'आकुट्टिकाया - Jain Education International For Private & Personal Use Only) प्रतिसेवा चित्र्ये प्रायश्चित्तवैचि त्र्यम् www.jainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy