________________
स्वोपज्ञत्तियुतः द्वितीयो
॥ १२५ ॥
| तथाऽऽत्मपरोभयानुभयतरका इति, अत्रापि चत्वारो भङ्गाः - आत्मानुग्राहकं तपः परोपष्टम्भकारकं वैयावृत्त्यं तयो| द्वयोरपि समर्थाः परं ये तप एव कुर्वन्ति न वैयावृत्त्यं ते आत्मतरका न परतरका इति प्रथमः १, ये तु वैयावृत्त्यमेव कुर्वन्ति न तपस्ते नाऽऽत्मतरकाः परतरका इति द्वितीयः २, ये तूभयमपि कुर्वन्ति ते उभयतरका इति तृतीयः ३, ये पुनरुभयमपि न कुर्वन्ति ते नोभयतरका इति चतुर्थः ४ । तथा 'अन्नतरग'त्ति अन्यतरका ये तपोवैयावृत्त्ययोरन्यतरदेकमेव कर्त्तुं शक्नुवन्ति नोभयकरणक्षमा इत्यर्थः ॥ २९ ॥
कप्पट्ठिआदओ वि य, चउरो जे सेयरा समक्खाया । साविक्वेयरभेआदओ अ जे ताण पुरिसाण ३३०
'कपट्टिआदओ विय'त्ति । कल्पस्थिता आदयो येषां ते कल्पस्थितादयश्चत्वारो ये 'सेतराः' सप्रतिपक्षाश्चत्वारः समाख्याताः - कल्पस्थित १ परिणत २ कृतयोगि ३ तरमाणाख्याः ४ अकल्पस्थिताऽपरिणता कृतयोग्यतरमाणाख्याश्च । तत्राऽऽचेलक्यादिदशविधकल्पे स्थिताः प्रथमचरमजिनसाधवः कल्पस्थिताः, मध्यमद्वाविंशतिजिनसाधवो महाविदेहजाश्चाकल्पस्थिताः । परिणतं परिपाकमापन्नं जीवेन सहैकीभावमागतं चारित्रं येषां ते परिणताः, इतरेऽपरिणताः । कृतयोगिनश्चतुर्थषष्ठाष्टमादिभिर्भावितशरीराः, इतरेऽकृतयोगिनः । तरमाणाश्च " शकेश्चयतरतीरपाराः (सि ८-४-८६ ) इत्यनेन प्राकृतलक्षणसूत्रेण शक्लधातोस्तरादेशे कृते शक्नुवानाः - शक्तितुलनां कुर्वाणा इत्यर्थः, इतरेतरमाणाः । एते च सापेक्षादयः, सापेक्षाः - गच्छवासिनः, निरपेक्षाः - जिनकल्पिकादयः, 'जे' इति पादपूरणे । 'ताण पुरिसाणं'ति इत्यग्रेतनगाथायां संबध्यते ॥ ३३० ॥ सा चेयम्
Jain Education International
For Private & Personal Use Only
गुरुतत्त्वविनिश्चयः
लासः
।। १२५ ॥
www.jainelibrary.org