________________
मुनिवृषभाणामयतनाकारिणां कथयतां प्रायश्चित्तं भवति 'गुरुकाः' चत्वारो मासा गुरवः। इयमत्र भावना-यद्ययत
नाकरणतः कथनतो वा ज्ञातं भवति यथा ममाशुद्धेन चिकित्सा क्रियते तदा तेषां मुनिवृषभाणां चत्वारो गुरुकाः, हिएतच्चासामाचारीप्रवृत्तिनिषेधार्थ प्रायश्चित्तम् ; या पुनरनिच्छतोऽसमाधिप्रवृत्तेरनागाढादिपरितापनाऽन्यदेव पृथगिति ।
एवमतिप्रसङ्गादिनिमित्तकमपि ॥ २६ ॥ तदेवं सम्मतिग्रन्थं परिसमाप्योपसंहरतिआयरिआई तम्हा, भिण्णा पडिसेवणाइभेएणं। पुरिसंतरे वि एसो, णेओ भणियं जओ जीए ॥ २७ ॥ __'आयरिआई' त्ति । तस्मादाचार्यादयः प्रतिसेवनादिभेदेन भिन्नाः। एष भेदः पुरुषान्तरेऽपि ज्ञेयः, यतो भणितं 'जीते' जीतकल्पे ॥ २७ ॥ पुरिसा गीआगीआ, सहासहा तह सढासढा केई । परिणामापरिणामा अइपरिणामा य वत्थूणं ॥२८॥ | 'पुरिस'त्ति। पुरुषा गीतार्थाः-अधिगतनिशीथान्तश्रुताः, अगीतार्थाः-तदितरे, सहा:-सर्वप्रकारैः समर्थाः,असहा:-अस-13 मर्थाः, तथा केचिच्छठाः-मायाविनः, अशठाः-सरलात्मानः, परिणामका अपरिणामका अतिपरिणामकाश्च वस्तूनाम्॥२८॥ तह धिइसंघयणोभयसंपन्ना तदुभएण हीणा य। आयपरोभयनोभयतरगा तह अन्नतरगा य ॥ २९ ॥ | 'तह' त्ति । तथा धृतिसंहननोभयसंपन्नाः, अत्र चत्वारो भङ्गाः-धृतिसम्पन्नाः संहननहीना इति प्रथमः १, संहन-2 नसंपन्ना धृतिहीना इति द्वितीयः २, उभयेन धृतिसंहननाख्येन संपन्ना इति तृतीयः ३, तदुभयेन हीनाश्चेति चतुर्थः४ ।
SECURMUSCULOUS
Jain Education International
For Private & Personal use only