________________
एसेव यदिट्टंतो, तिविहे गीअम्मि सोहिनाणत्ते । वत्थुसरिसो उदंडो, दिज्जइ लोए वि पुत्रुतं ॥ २४ ॥
'एसेव य'ति । 'गीते' गीतार्थे 'त्रिविधे' त्रिप्रकारे बालतरुणवृद्धलक्षणे यत् शोधिनानात्वं तद्विषय 'एष एव' अनन्तरोदितस्वरूपो दृष्टान्तः । तथाहि —यथा कल्पयाकल्प्य विधिपरिज्ञानविकलोऽकल्प्यमपि कल्प्यमिति बुद्ध्या प्रतिसेवमानो न | दोषवान् भवति कोविदस्तु कल्प्याकल्प्यौ जानानोऽकल्पनीयं प्रतिसेवमानो दोषवान्, एवमिहापि तुल्ये प्रतिसेव्यमाने वस्तुनि तरुणे प्रभूतं प्रायश्चित्तं समर्थत्वात्, बालवृद्धयोः स्तोकमसमर्थत्वात् ; न चैतदन्याय्यम्, यतो लोकेऽपि वस्तुसदृशपुरुषा नुरूपो दण्डो दीयते, तथाहि - बाले वृद्धे च महत्यप्यपराधे करुणास्पदत्वात् स्तोको दण्डः, तरुणे महान्, एतच्च प्रागेवोक्तम् 'दोसविहवाणुरूवो' इत्यादिना, ततो न्याय्यमनन्तरोदितमिति ॥ २४ ॥ संप्रत्याचार्योपाध्यायभिक्षूणामेव चिकित्साविषये विधिनानात्वं दर्शयति
तिविहे तेगिच्छम्मि य, उज्जुअ वाउलणसाहणा चेव । पण्णवणमणिच्छंते, दितो भंडिपोएहिं ॥२५॥
'तिविहे' त्ति । 'त्रिविधे' त्रिप्रकारे आचार्योपाध्याय भिक्षुलक्षणे चिकित्स्यमाने गीतार्थ इति गम्यते 'उज्जुअ'त्ति 'ऋजुकं' स्फुटमेव ' व्यापृतसाधना' व्यापृतक्रियाकथनं कर्त्तव्यम् । इयमत्र भावना - आचार्याणामुपाध्यायानां गीतार्थानां च | भिक्षूणां विचिकित्स्यमानानां यदि शुद्धं प्रासुकमेषणीयं लभ्यते तदा न तत्र विचारः । अथ शुद्धं न लभ्यतेऽवश्यं च चिकित्सा कर्त्तव्या तदाऽशुद्धमप्यानीय दीयते, तथाभूते च दीयमाने स्फुटमेव निवेद्यते इदमेवम्भूतमिति तेषां गीतार्थ -
Jain Education International
For Private & Personal Use Only)
आचार्योपा
ध्याय भिक्षू
णां चिकि
त्साकरणे
विधिः
www.jainelibrary.org