________________
समानेऽपि दोषेऽल्पधनस्याल्पो महाधनस्य महान् लोकेऽपि तावदेवम् , किमुत' किं पुनः 'औतरिके' लोकोत्तरे व्यवहारे, तत्र सुतरां दोषसामोनुरूपो दण्डः, तस्य सकलजगदनुकम्पाप्रधानत्वात् । 'इतरथा' दोषसामर्थ्य अतिक्रम्य दण्डकरणे व्यवस्थाभावात्सन्तानप्रवृत्त्यसम्भवे तीर्थोच्छेदः स्यात् । तथा 'निरनुकम्पा' अनुकम्पाया अभावः, प्रायश्चित्तदायकस्यासमर्थभिक्षुप्रभृतीनामननुग्रहात् । न च तस्य प्रायश्चित्तदायकस्य विशोधिः, अप्रायश्चित्ते प्रायश्चित्तस्य प्रायश्चितेऽप्यतिमात्रप्रायश्चित्तस्य दानतो महाऽऽशातनासम्भवात् , ततः सापेक्षा आचार्यादयस्त्रिविधाः ॥ १९॥ अत्रैव प्रकारान्तरमाहअहवा कज्जाकज्जे, जयाजयंते अ कोविदो गीओ। दप्पाजओ णिसेवं, अणुरूवं पावए दोसं ॥ ३२० ॥
'अहव' त्ति । 'अथवा इति प्रकारान्तरे 'गीतः' गीतार्थः, स कारणमपि जानात्यकारणमपि जानाति यतनामपि जानात्ययतनामपि जानाति । एवं कार्याकार्ये यतायते कोविदो गीतार्थों यदि दर्पण प्रतिसेवते कारणेऽप्ययतनया च तदा स दायतो निषेवमाणः 'अनुरूपम्' दर्पानुरूपमयतनानुरूपं च दोषं प्रायश्चित्तं प्राप्नोति, दयितनानिष्पन्नं तस्मै प्रायश्चित्तं दीयत इति भावः ॥ ३२०॥
कप्पे अ अकप्पम्मि य, जो पुण अविणिच्छिओ अकजं पि । कज्जमिति सेवमाणो, अदोसवं सो असढभावो ॥ २१ ॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org