SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ ACCORRORSCOCOCOCK कृतकरणोपाध्याये मूलप्रायश्चित्तसमर्थनात् , कोष्ठकवृद्धेश्च सापेक्षस्यैवाधिकृतत्वेनाभावात्, इतरस्य सूचयैवाभिधानादिति दृढतरमवधारणीयम् ॥ १५॥ ननु सापेक्षनिरपेक्षयोस्तावद्भेद आस्तां सापेक्षाणां त्वाचार्योपाध्यायभिक्षणां कुतो भेदः? इत्याशङ्कां समादधानः प्राहनणु आयरिआदीणं, साविक्खाणं कओमओ भेओ।भण्णइ जंपच्छित्तं,दाणं चण्णं जओ भणियं॥१६॥ का 'नणु' त्ति । नवाचार्यादीनां सापेक्षाणां भेदः कुतः कारणात् 'मतः' अभ्युपगतः ? आचार्योपाध्याययोरपि भिक्षु-11 त्वस्यावस्थितत्वात् , तद्हणेन तयोरपि ग्रहणसम्भवात् ; 'भण्यते' अत्रोत्तरं दीयते-'यत्' यस्मादाचार्यादीनामाभव-131 त्प्रायश्चित्तं समर्थासमर्थपुरुषाद्यपेक्षप्रायश्चित्तस्य दानं च भिन्नं तत आचार्यादीनां भेदः, यतो भणितं व्यवहारभाष्ये ॥१६॥ कारणमकारणं वा, जयणाजयणा व नत्थऽगीयत्थे। एएण कारणेणं,आयरिआई भवे तिविहा॥ १७ ॥ RI 'कारणमकारणं वत्ति । 'इदं कारणं प्रतिसेवनाया इदमकारणम् , तथा इयं यतना इयमयतना' इत्येतन्नास्ति विचारणं 81 अगीतार्थे, अर्थाद्गीतार्थस्यास्तीति प्रतीयते । तत्राचार्योपाध्यायो गीतार्थी भिक्षीतार्थोऽगीतार्थश्च, गीतार्थस्यागीतार्थस्य च कारणे यतनया कारणेऽयतनयाऽकारणे यतनयाऽकारणेऽयतनया पृथक् पृथक् प्रायश्चित्तम् , सहासहपुरुषाद्यपेक्षं तुल्येऽपि प्रायश्चित्ते आपद्यमाने पृथगन्योऽन्यो दानविधिरित्येतेन कारणेनाचार्यादयस्त्रिविधा भवन्ति । सूत्रे 'भवे' इति बहुत्वेऽप्येकवचनं प्राकृतत्वात् , प्राकृते हि वचनव्यत्ययोऽपि क्वचिद्भवतीति ॥ १७॥ एनामेव गाथां व्याख्यानयति CSCOCCCCCCC - Jain Education International For Private & Personal Use Only
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy