SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ पादनमिति । दानं तु, यथापुरुषमत्र यन्त्रेण सुलभम् । यस्यैवाचार्यस्य कृतकरणस्य सापेक्षस्य महत्यप्यपराधे मूलम् । तस्यैवाकृतकरणस्यासमर्थत्वाच्छेदः । उपाध्यायस्य च कृतकरणस्य मूलप्रायश्चित्तमापन्नस्यापि सापेक्ष इति कृत्वा छेदः, तस्याकृतकरणस्य च मूलमापन्नस्यापि गुरुषाण्मासिकम् , "सावेक्खो त्ति व काउं, गुरुस्स कयजोगिणो भवे छेओ । अकयकरणम्मि छग्गुरु" इति वचनात् , आचार्यस्य प्रागुक्तत्वेन गुरुशब्देनात्रोपाध्यायस्यैव ग्रहणात् । मनाग् निरपेक्षतायां च कृतकरणस्याप्युपाध्यायस्य मूलापत्तौ मूलमेवोच्यते, "बिइए मूलं च छेदो छ गुरुगा” इतिव्यवहारवचनात् , तथाविध-2 धृतिबलसमर्थतायां मूलस्यान्यथा तु च्छेदस्य कृतकरणोपाध्यायपक्षे समर्थनात् , एवमग्रिमा पक्रान्तिरचनाया यथासम्प्रदाय यन्त्रेण स्पष्टमेवोपलम्भादिति ॥ ३०० ॥ यन्त्ररचनाप्रकारमेवाह वारस गिहाइ तिरिअं, वीसं च अहोमुहाइं गेहाइ । ठाविज तओ दुगदुगहाणीइ दसाइगेहाई॥१॥ MI 'बारस' त्ति । तिर्यग् द्वादश गृहाणि अधोमुखानि च विंशतिहाणि स्थापयेत् । एवं च द्वादशगृहात्मिका विंशतिगृह- पतयो भवन्ति, ततो द्विकद्विकहान्या दशादिगृहाणि स्थाप्यन्ते । अयं भावः-विंशतितमायां पङ्को दक्षिणतोऽन्तिमे द्वे गृहके मुक्त्वा तस्या अधस्तादशगृहात्मिका एकविंशतितमा पनि स्थाप्यते, तत्र ये द्वे अन्तिम गृहके ते मुक्त्वाऽधस्तादष्टगृकाहात्मिका द्वाविंशतितमा, तदन्त्ये द्वे गृहे मुक्त्वा तस्या अधस्तात पडगृहात्मिका त्रयोविंशतितमा, तदन्त्ये द्वे गृहके मुक्त्वा तस्या अधस्ताच्चतुर्ग्रहात्मिका चतुर्विंशतितमा, तस्यामपि ये द्वे अन्तिमे गृहे ते मुक्त्वा तस्या अधस्ताविपहात्मिका पञ्चविंशतितमा, तस्या अधस्तादेकगृहात्मिका षडूविंशतितमा पङ्किः स्थाप्या, एवं षडविंशतिपङ्गयात्मकं यन्त्रं भवतीति॥शाएतदेवाह यत्ररचनाप्रकारः, तत्र व्यवहारयब्ररचनाविधिः Main Education internet For Private & Personal use only www.jainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy