________________
'कयकरणा वि य'त्ति । कृतकरणा अपि द्विविधाः-सापेक्षाः खलु तथैव निरपेक्षाश्च । तत्र सहापेक्षया-गच्छवासपालनादिलक्षणया वर्तन्ते ये ते सापेक्षाः, निर्गता अपेक्षा येभ्यस्ते निरपेक्षाः। तत्र निरपेक्षाः 'जिनादयः' जिनकल्पिकाः शुद्धपरि-2 हारविशुद्धिका यथालन्दककल्पिकाश्चेति त्रय इत्यर्थः, एते हि नियमात्कृतकरणा एव, अकृतकरणानामन्यतमस्यापि कल्पस्य: प्रतिपत्तेरयोगात् । सापेक्षाः 'आचार्यादयः' आचार्या उपाध्याया भिक्षवश्चेति त्रय इत्यर्थः । एते प्रत्येकं द्विधा भूयो भवन्ति, तद्यथा-आचार्याः कृतकरणा अकृतकरणाच, उपाध्याया अपि कृतकरणा अकृतकरणाश्च, भिक्षवोऽपि कृतकरणा अकृतकरणाश्च । तत्र कृतकरणानां चिन्त्यमानत्वादस्यां गाथायामेते कृतकरणा ग्राह्याः॥ ९६ ॥
अकयकरणा वि दुविहा, अणहिगया अहिगया य बोधवा।
समहीअम्मि अहिगया, पकप्पि इहरा उ अणहिगया ॥ ९७ ॥ 'अकयकरणा वित्ति । इहाचार्या उपाध्यायाश्च कृतकरणा अक्तकरणा वा नियमाद्रीतार्थाः स्थिराश्च, तत इहाकृतकरणा भिक्षव एव ग्राह्याः, तेऽकृतकरणा भिक्षवो द्विविधाः-अनधिगता अधिगताश्च बोद्धव्याः। समधीते 'प्रकल्पे' निशीथाध्ययने जघन्यतोऽप्यधिगताः, 'इतरथा' तदध्ययनाभावे त्वनधिगताः ॥ ९७ ॥ अत्रैव मतान्तरमाहकेइ पुण अहिगयाणं, इह कयकरणत्तमेव इच्छंति।जं आयतगा जोगा, बूढा खलु तेहि णियमेणं ॥१८॥ 'केइ पुण' त्ति । केचित् पुनराचार्या अधिगतानां कृतकरणत्वमेवेच्छन्ति न त्वकृतकरणत्वम्, 'यत्' यस्मात् 'तैः'
गुरुत. २०
Jain Educaton Internations
For Private & Pearl Use Only