________________
गुरुत. १९
व्यवहर्त्तव्ये व्यवहर्त्तव्यं वक्ष्ये ॥ ७१ ॥
दवे खित्ते काले, भावे य चउविहो इमो होइ । सच्चित्ते अच्चित्ते, दुविहो पुण होइ दवम्मि ॥ ७२ ॥ 'दत्ति' । द्रव्ये क्षेत्रे काले भावे च चतुर्विधोऽयं प्रायश्चित्तव्यवहारो भवति । द्रव्ये पुनर्द्विविधो भवति सचित्तेऽचित्ते च ॥ ७२ ॥ तत्र प्रथमतः सचित्ते विवक्षुरिदमाह -
| पुढविदगअगणिमारुअवणस्सइतसेसु होइ सच्चित्ते । पिंडोवहि अच्चित्ते, दस पन्नरसे व सोलसगे ॥ ७३ ॥
'पुढवि’त्ति । पृथिव्युदकाग्निमारुतवनस्पतित्रसेषु यत् प्रायश्चित्तं तत् सचित्ते भवति । पिण्डविषयमुपधिविषयं चाचित्ते । दशकै एषणादोषाणां पञ्चदशके उद्गमदोषाणामध्यवपूरकस्य मिथेऽन्तर्भावविवक्षणात् षोडशके चोत्पादनादोषाणाम् | ॥ ७३ ॥ सचित्तविषयं प्रकारान्तरमाह -
अहवा अट्टारसगं, पुरिसे इत्थीसु वज्जिआ वीसं । दसगं णपुंसकेसु अ, भणिआ आरोवणा तत्थ ॥७४॥
'अह'ति । अथवाऽष्टादशकं पुरुषे 'वर्जितं' प्रव्राजयितुं निषिद्धम्, स्त्रीषु विंशतिर्वर्जिता, नपुंसकेषु च दशकं वर्जितम् । तत्र ' आरोपणा' प्रायश्चित्तं भणिता कल्पाध्ययने तत्सचित्तविषयमिति भावः ॥ ७४ ॥ क्षेत्रकालविषयमाह - जणवय अद्ध गिरोहे, मग्गातीते अ होइ खित्तम्मि । दुब्भिक्खे य सुभिक्खे, दिया व राओ व कालम्मि ॥ 'जणवय'त्ति । जनपदेऽध्वनि निरोधके मार्गांतीते च यत्प्रायश्चित्तं तत् क्षेत्रविषयं भवति । अयं भावः - जनपदेऽपि वसन्
Jain Education International
For Private & Personal Use Only:
M
प्रायश्चित्त
निक्षेपाः
द्रव्य -
प्रायश्चित्तम्
क्षेत्रकालप्रायश्चित्तम्
ainelibrary.org