________________
SAMACHAR
विणओवसंपयाए, पुच्छाए साहणे य गहणम्मि।णाए गुणम्मि दोन्नि वि, णमंति पकिल्लसाली वा ॥६७॥ विनियोपसंI "विणओवसंपयाए'त्ति। विनयोपसम्पदि कारणतोऽकारणतो वा केचिद्विहरन्तोऽदृष्टपूर्व देशं गतास्तर्वास्तव्यानांपत् तदाभासाम्भोगिकानां पृच्छा कर्तव्या मासकल्पप्रायोग्याणां वर्षावासप्रायोग्याणां वा क्षेत्राणाम् । तस्यां च कृतायां तैः 'साधनव्यविधिश्च निवेदनं कर्त्तव्यम् । यदि च न पृच्छन्ति पृष्टा वा ते न कथयन्ति तदा द्वयानामपि प्रत्येक प्रायश्चित्तं लघुको मासः।
यच्च पृच्छामन्तरेण कथनमन्तरेण वा स्तेनश्वापदादिभ्योऽनर्थ साधयः प्रानुवन्ति तन्निष्पन्नमपि । तथा साधिते च क्षेत्रे है ग्रहणं सचित्तादीनां यदागन्तुकैर्वास्तव्यैश्च क्रियतेऽन्योन्यं निवेदनीयं च तदपि, यथैतन्मया सचित्तमचित्तं वा लब्धं यूयं
प्रतिगृहीत, एवं निवेदने कृते द्वितीयो न गृह्णाति परं सामाचार्येषेत्यवश्यं निवेदनं कर्तव्यम् , अनिवेदने लघको मासः। ततो द्रव्यादिपरीक्षया ज्ञाते गुणे परीक्षापूर्वकमुपसम्पद्यमाना द्वयेऽपि परस्परं नमन्ति, किमुक्तं भवति ?-रत्नाधिकस्य प्रथमतोऽवमरत्नाधिकेनाऽऽलोचना दातव्या, पश्चाद्रत्नाधिकनावमरत्नाधिकस्य, तदुक्तम्-"वंदणालोअणा चेव, तहेव य निवेयणा । सेहेण उपउत्तम्मि, इयरो पच्छ कुबइ॥१॥" अत्र पक्कशालयो दृष्टान्तः-यथा पक्काः शालयः परस्परं नमन्ति तथाऽत्रापीति भावः । अपरीक्ष्योपसम्पत्ती परीक्ष्यापि प्रमादिन उपसम्पत्तो च प्रत्येकं प्रायश्चित्तं चत्वारो गुरुकाः॥६७ ॥ केई भणंति ओमो, णियमेण णिवेइ इच्छ इयरस्त । तं तु ण जुज्जइ जम्हा, पकिल्लगसालिदिद्रुतो ॥६८॥ 'केईत्ति । केचिद् ब्रुवते नियमेन 'अवमः' अवमरत्नाधिको निवेदयांत, 'इतरत्य' रत्नाधिकस्य 'इच्छा' यदि प्रतिभासते
For Private
Personal use only
www.jainelibrary.org