SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ वर्त्तन्ते । अथ ते सारयन्तः परिताम्यन्ति तदा कुलस्थविराणां गणस्थविराणां सङ्घस्थविराणां वा तान् ददति, यो वा कोऽपि तेषां सम्मतस्तस्य समर्पयन्तीति ॥ ६१ ॥ उक्ता सुखदुःखोपसम्पत् । अथ मार्गोपसम्पदमाह - गीयत्थपरिग्गहओ, लहइ अगीओ वि हंदि आभवं । मग्गोवसंपयाए, सा पुण एसा मुणेयवा ॥ ६२ ॥ मार्गोपसंपत् तदाभाव्यविवेकव 'गीयत्थ'ति । मार्गोपसम्पदि गीतार्थपरिग्रहतोऽगीतार्थोऽपि 'हन्दि ' इत्युपदर्शने आभाव्यं लभते, अन्यथाऽगीतार्थस्य न किञ्चिदाभवतीति वचनान्न कोऽपि लाभः स्यादिति सा पुनरेषा ज्ञातव्या ॥ ६२ ॥ जह कोई मग्गन्नू, अन्नं देतं तु वच्चई साहू । उवसंपज्जइ उ तगं, तत्थण्णो गंतुकामो उ ॥ ६३ ॥ 'जह'त्ति । 'यथा’इति मार्गोपसम्पत्प्रदर्शने, यथा कश्चित्साधुर्मार्गज्ञोऽन्यं देशं व्रजति, तत्र देशेऽन्यो गन्तुकामस्तकं साधुमुपसम्पद्यते अहमपि युष्माभिः सह समागमिष्यामीति ॥ ६३ ॥ अथ कीदृशो मार्गोपदर्शन निमित्तमुपसम्पद्यते तत आहअवन्तो अविहाडो, अदिट्ठदेसी अभासिओ वा वि । एगमणेगे उवसं-पयाइ चउभंग जा पंथो ॥ ६४ ॥ 'अवत्तो 'ति । अव्यक्तो वयसा 'अविहाड : ' प्रगल्भः 'अदृष्टदेशी' अदृष्टपूर्वदेशान्तरः 'अभाषकः' देशभाषापरिज्ञानविकलः, सा चोपसम्पदेकस्यानेकस्य च, अत्र चतुर्भङ्गी तद्यथा-एकक एक संपद्यते १ एकोऽनेकम् २ एकमनेके ३ अनेकमनेके ४, सा चोपसम्पत्तावद् यावत्पन्थाः, किमुक्तं भवति ? यावत्पन्थानं व्रजति ततो वा प्रत्यागच्छतीति ॥ ६४ ॥ | अस्यामाभाव्य विवेकमाह - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy